SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] श्रीपार्श्वजिनस्तवनम् (२०५) योगीन्द्रं विबुधाधिपं फणपतिं श्रीदं गिरामीश्वरं ज्योतीरूपमनन्तमुत्तमधियस्त्वामेव संवेदते ॥ १० ॥ रूपादौ विषये विदन् विगुणतां त्वं न्यायविद्यागुरु ब्रह्माद्वेतमुदाहरन्निह भवान् मीमांसकग्रामणीः । भावानां परिभावयन् क्षणिकतां बौद्धाधिपस्त्वं विदं स्त्वं कर्मप्रकृती: पृथक् पुरुषतः कैवल्यमाशिश्रयः ॥११॥ त्वं कारुण्यनिधिस्त्वमेव जनकस्त्वं बान्धवस्त्वं विभु स्त्वं शास्ता त्वमचिन्त्यचिन्तितमणिस्त्वं देवता त्वं गुरुः । त्वं प्रत्यूहनिवारकस्त्वमगदङ्कारस्त्वमालम्बनं तत् किं दुःस्थमुपेक्षसे जिनपते! श्रद्धालुमेनं जनम् ॥१२॥ शिष्यस्ते तव सेवकस्तव विभो ! प्रेष्यो भुजिष्यस्तव द्वाःस्थस्ते तव मागधस्तव शिशुस्ते देव ! सौस्नातिकः । पत्तिः पार्श्वजिनेश ! ते नुत(ननु) तवायत्तोऽस्मि मामादिश स्वामिन् ! किं करवाणि पाणियुगलीमायोज्य विज्ञापये ॥१३॥ स्वःश्रीरिच्छति चक्रवर्तिकमलाभ्येति स्थितिः सेवते कीर्तिः श्लिष्यति संस्तुते सुभगतापीशाति नीरोगता । नित्यं वाञ्छति खेचरत्वपदवी तीर्थेशलक्ष्मीरपि त्वत्पादाब्जरजःपवित्रिततनुः सप्रश्रयं वीक्षते ॥ १४ ॥ नो कीर्तिः त्रिदिवाधिपत्यमपि नो नो चक्रवर्तिश्रियं ... सौन्दर्य न तु पाटवं न विभवं नो विष्टपप्राभवम् । नो सर्वोषधिमुख्यलब्धिनिवहं नो मुक्तिमभ्यर्थये किंतु त्वच्चरणारविन्दयुगले भक्तिं जिन ! स्थेयसीम् ॥१५॥ For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy