________________
www
सरिविनिर्मिताः] साधारणजिनस्तवाः (१७९)
स्वामिन्ननन्तफलकल्पतरोऽभिराम
चन्द्रावदातचरिताञ्चितविश्वचक्र !। शक्रस्तुताघ्रिसरसीरुह ! दुःस्थसार्थे देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥
[७१ ] यथावस्थितबोधस्य यथावस्थितवादिनः ।
अरागद्वेषमोहस्य देवस्य पथमाश्रये ॥ १॥ उपेक्षावान् जगद् रक्षन् कृपावान् निर्जयन् परान् ।
मध्यस्थः परमाक्रामन् दत्से कस्मै न विस्मयम् ? ॥२॥ प्रशान्तश्चेत् किमन्येषां मर्माणि तुदसे गिरा।
निराकाङ्क्षोऽसि चेद् विश्वं केनोपकुरुषेऽधुना ॥ ३ ॥ प्रत्यूहं जयतात्मानमशेषं रक्षता परम् ।
निर्जिता यत् त्वया त्रातः ! परे चित्रं न कस्य तत् ॥ ४॥ न सैन्यानि न दुर्गाणि नोपाया न च हेतयः । ___ एवमेव द्विषोऽशेषान् जयतस्ते नवो नयः ॥ ५ ॥ सर्वत्र मुदिता मैत्री कृपोपेक्षा च जन्तुषु । - इयं वागपि नान्येषामनुष्ठाने तु का कथा ? ॥ ६॥ आत्मैकनिष्ठे निःशेष........चिन्तापराङ्मुखे ।
न जानीमः कुतोऽप्यर्थादर्थिनस्त्वयि तात्त्विकाः ॥७॥ उदास्स्व यदि वा कुप्य प्रसीद यदि वा मयि ।
अहं पुनः शिवायापि प्रपद्ये नार्थितां त्वयि ॥ ८ ॥ आकृष्य पात्यमानानां विषयैर्व्यसनाम्बुधौ । ... स्वामी त्रिलोकलोकस्य त्राणं देव ! त्वमेव नः ॥ ९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org