SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ • सूरिविरचिता] भक्त्यतिशयद्वात्रिंशिका (१५३) निषिद्धलोलाविहितार्थविद्विषोऽसमञ्जसज्ञानकरालचक्षुषः। उपेक्षिताश्चेद् भवताऽपि मादृशास्ततो भवेयुर्विपदां कुटुम्बिनः ॥२३॥ प्रसाध्य ते शर्म हठेन देहिनो निकृत्य जिवातु जिनेन्द्र ! को न यः। पलादमुख्यैः स्वपरौ मुखाध्वना तदप्यगाधं प्रतिलम्भितौ तमः॥२४॥ इदं कृपापात्रमतल्लिका जगद् भवान् पुनर्विश्वकृपालुकुञ्जरः ॥ तदौचितीं स्वस्य परस्य चिन्तयन् प्रतिक्रियां कामपि कर्तुमर्हसि२५ तथा त्वया तत्त्वमधीश ! सूत्रितं यथा सुरश्रीरपि भाविविप्लवः । ततः श्रुतेर्वमनि भोगसाधने कियत् प्रवृत्तं ग्रहिलेन्द्रियं जगत् ॥२६॥ पराशयेभ्यः परभागवासिनः स्थितिक्रमाः सन्तु परेऽपि लक्षशः । अखण्डवृत्त्या बत तत्वपद्धतेर्जिनेन्द्र ! सन्तः कृपयैव विस्मिताः॥२७॥ नवं नवं धाम नवा नवा रुचिर्नवो नवो वैभवगौरवोदयः । तव प्रसाद प्रणयाञ्चितात्मनां नवं नवं शम नवा नवा रतिः॥२८॥ कियद् यशो धाम कियत् कियन्मही रसात x x x x भक्त्यतिशयद्वात्रिंशिका । एकातपत्रामिव शासनस्य लक्ष्मी दधानः फणभृत्फणाभिः । आरूढ जाबालि'पुराद्रिहस्ती श्रियेऽस्तु वः पार्श्वजिनाधिराजः ॥१॥ सर्वज्ञ ! विज्ञप्यमिहास्ति यत्तन्न वेदनातीत ! भवान्न वेद। . तथापि माध्यस्थ्यमिदं त्वदीयं किमप्यहो मां मुखरीकरोति ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy