________________
प्रस्तावना
DDCDD
विदाङेवन्तु विदितानवद्यविद्या विशुद्धहृदया विद्वांसो यथा किल वैदिकादिषु भारतवर्षीयेषु दर्शनेषु, विद्यन्ते निजनिजेष्टदेवतास्तुतिरूपाणि विविधानि स्तव-स्तोत्राणि, तथैव वरिवर्तन्तेऽनेकविद्वद्वरविरचितानि प्रायशः शान्तरसमयानि वैराग्यगर्भितानि निर्वाणपथसार्थवाहानां रागद्वेषाधष्टादशदोषविनिर्मुक्तानां देवाधिदेवानां जिनानां स्तुतिरूपाणि मोहादिकर्मक्षयकारणान्यनेकशः स्तोत्राणि जैनदर्शनेऽपि । ___ व्यावर्णितं च दृश्यते जैनानां प्राचीनतरेष्वागमादिष्वपि ग्रन्थेषु स्तवादिमाहात्म्यम् । तच्चैवम्. " थयथुइमंगलेणं भंते ! जीवे कि जणेइ ? नाणदसणचरित्त
बोहिलाभं संजणयइ, नाणदंसगचरित्तबोहिलाभसंपन्ने णं जीवे - अंतकिरियं कप्पविमाणोववत्तियं आराहगं आराहेइ ॥ १४ ॥"
(उत्तरा० अध्य० २९) " जरसमणाई रयणा अण्णायगुणावि ते समिति जहा। कम्मजराइ थुइमाइयावि तह भावरयगा उ ॥"
(पञ्चा० ४, गा. २६)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org