SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ( १२३ ) श्रीपालविरचितम् ] चतुर्विंशतिजिनस्तवनम् श्रीसुव्रत ! व्यधार्षीः स्म महीनतरसं यमम् । अजैषीस्त्वं जनान्नन्तुमहीनतरसंयमम् ॥ २१ ॥ नमे ! यस्मिन्नतोऽस्मि त्वाममानं दमयोगतः । स एव समयः कामं ममाऽऽनन्दमयो गतः ॥ २२ ॥ ताः समन्नाक्षिपन्नेमे ! कमनीयतमा नवम् । यासां दृशाऽपि नानङ्गकमनीयत मानवम् ॥ २३ ॥ पार्श्वनाथ ! जगाम त्वां कोपमातङ्गतापदम् । यः पुपोष तपः सिंहं कोऽपमातङ्गतापदम् ॥ २४ ॥ जातलक्ष्मी तमो हर्तुं वर्द्धमान ! प्रभो ! दयाम् । देहिमद्य विधेहि त्वं वर्द्धमानप्रभोदयम् ॥ २५ ॥ शुचिर्जिनाली वः पायादपवित्रा समानसा । योsस्नाद्यस्यास्तमोग्गोसा ( ? ) दपवित्रा समानसा ॥ २६ ॥ जिनागमं तमोध्वंसे रविकल्पमपापदम् । नमाम्युममांकमलै रविकल्पमपापदम् ॥ २७ ॥ त्वया वाग्देवि ! तत्कार्य महतोद्यमयाssदरात् । यथा मोहमयां तार्य महतोद्यमादरात् ॥ २८ ॥ इति सुमनसः श्रीपालकविरचितनयः समस्तजिनपतयः । अविनाशिज्ञानदृशो दिशन्तु वः ..... ॥ २९ ॥ Jain Education International ........... For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy