SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ (३४) जनस्तोत्रसन्दोहे. [श्रीविजयप्रभआत्मानमात्मन्यवलोकमानस्त्वं दर्शनज्ञानमयं विशुद्धः । एकाग्रचित्तः खलु यत्र तत्र स्थितोऽपि साधो ! लभसे समाधिम्॥२५॥ एकः सदा शाश्वतिको ममात्मा विनिर्मलेक्षाधिगमस्वभावः । बहिर्भवाः सन्ति परे समस्ता न शाश्वताः कर्मभवाः स्वकीयाः ॥२६॥ यस्यास्ति नैक्यं वपुषाऽपि सार्द्ध तस्यास्ति किं पुत्रकलत्रमित्रैः। पृथक्कृते चर्मणि रोमकूपाः कुतो हि तिष्ठन्ति शरीरमध्ये ? !॥२७॥ संयोगतो दुःखमनेकभेदं यतोऽनुते जन्मवने शरीरी। ततस्त्रिधाऽसौ परिवर्जनीयो यियासुना निवृत्तिमात्मनीनताम् ॥२८॥ सर्व निराकृत्य विकल्पजालं संसारकान्तारनिपातहेतुम् । विविक्तमात्मानमवेक्षाणो निलीयसे त्वं परमात्मतत्त्वे ॥ २९ ॥ स्वयं कृतं कर्म यदात्मना पुरा फलं तदीयं लभते शुभाशुभम् । परेण दत्तं यदि लभ्यते स्फुटं स्वयं कृतं कर्म निरर्थकं तदा ॥३०॥ निजार्जितं कर्म विहाय देहिनो न कोऽपि कस्यापि ददाति किञ्चन । विचारयन्नेवमनन्यमानसः परो ददातीति विमुञ्च शेमुषीम् ॥ ३१ ॥ इति द्वात्रिंशता वृत्तैः परमात्मानमीक्षते । अनन्यगतचतस्को यात्यसौ पदमव्ययम् ॥ ३२ ॥ यैः परमात्माऽमितगतिविद्यः सर्वविविक्तो भृशमनवद्यः । शश्वदधीतो मनसि लभन्ते मुक्तिनिकेतं विभवजरं ते ॥ ३३ ॥ , ज्ञान । २ संयोगः । ३ स्वहितकारिणीम् । ४ पश्यन् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy