________________
प्रस्तावना।
(७३)
(३२ ) मेरुनन्दनोपाध्यायः अनेनैव विरचिते श्रीजिनोदयसूरिविवाहलाप्रान्ते-एहु सिरि जिणउदयसूरिनियसामिणो कहिउ मइ चरिउ अइमंदबुद्धि अम्ह सो दिक्खगुरु देउ सुपसन्नउ दंसणनामचारित्तसुद्धिं । एहु गुरुराय वीवाहलउ जे पढइ जे गुणइ जे सुणंति उभयलोगे वि, ते लहइ मणवंछियं मेरुनंदनगणि इम भणंति ॥” इत्यनेन पद्येन श्रीजिनोदयसूरिनिरूपितः स्वयं स्वस्य दीक्षागुरुः, श्रीजिनोदयसूरेश्च सं. १३७५ वर्षे रुद्रपालश्रेष्ठिपत्नी धारलदेवीकुक्षौ प्रहादनपुरे जन्म, सं. १३८२ वर्षे श्रीजिनकुशलसूर्यन्तिके दीक्षा, सोमप्रभ इति नाम । सं.१४०६ वर्षे जेसलमेरुद्रङ्गे वाचनाचार्यपदम् , सं.१४१५ वर्षे स्तम्भतीर्थे तरुणप्रभसूरिभिः प्रदत्तं सूरिपदम् , 'जिनोदयमूरि' रित्यभिधानं च । सं. १४३२ वर्षे समाधिना समाससाद स्वर्गिसम्पदम् । इत्यनाशङ्कयमनेहः, मेरुनन्दनोपाध्यायस्याप्यस्य समान एव सत्तासमयः । ___कृतयस्त्वस्य-जिनोदयसूरिविवाहलउ, अजितशान्तिस्तवनम् , सीमन्धरजिनस्तवनं (अप०)
( ३३ ) श्रीदेवसुन्दरसूरिः। ___ तपागच्छीयैकोनपश्चाशत्तमपट्टपूर्वाचलप्रभाकरः स्थावरजङ्गमविषापहारी मन्त्रतन्त्रविद्यामन्दिरं योगाभ्यासनिष्णातो जलानलव्यालादिभयध्वंसी त्रिकालनिमित्तवेत्ता महानरेन्द्रवन्धचरणारविन्दः सूरिवरोऽयं श्रीसोमतिलकसूरिशिष्यः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org