SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ४०० ] दि० जैन व्रतोद्यापन संग्रह | लोक समूहस्य शांति बुद्धि पुष्टि तुष्टि तेम कल्याण स्वायुरारोग्यप्रदाभवन्तु । सर्वसौख्यप्रदाः सन्तु । देशे राष्ट्र पुरेषु च सर्वदेव चौरारिमारीतिदुर्भिक्ष विग्रह विघ्नौ दुष्ट ग्रह भूतशा किनी प्रभृत्यशेषाण्यनिष्ठानि प्रलयं प्रयान्तु । राजा विजयो भवतु प्रजासौख्यं भवतु । राजप्रभृति समस्तलोकाः सततं जिनधर्मवत्सलाः, पूजादानव्रत शीलमहामहोत्सवप्रभृतिषूद्यता भवन्तु । चिर कालं नन्दन्तु । यत्र स्थिता भव्यप्राणिनः संसार-सागरं लीलयैवोत्तीर्यानुपमं सिद्धिसौख्यमन्तकाल मनुभवन्ति तच्चाशेष प्राणिगण शरणभूतं जिनशासनं सर्वसौख्यप्रदं भवत्विति स्वाहा | पृथिवी । अनेन विधिना यथाविभव महतः स्थापनं, विधाय मह मन्वहं सृजति यः शिवाशावरः । स चक्रिहरि तीर्थकृत्पद कृताभिषेकः सुरैः, समचितपदः सदा सुखसुधाम्बुधौ मज्जति ॥ इति पूजाफलम 1 इति शान्त्यभिषेकः समाप्तः । संवत् १६३५ वर्षे वैशाखमा से शुक्लपक्षे ५ तिथौ श्रीमूल संघ सरस्वतीगच्छे बलात्कारगणे श्री कुन्दकुन्दाचार्यान्वये भट्टारक श्रीशुभ्र चन्द्रस्ततपट्टे श्री सुमतिकोर्तिस्तत्पट्टे श्री गुणकीति स्तस्य शिष्यो ब्रह्मचारिवस्तस्तल्लिखितमेतच्छान्ति चक्रव्रतविधानोद्यापनमेतत् समाप्तम् ।
SR No.090154
Book TitleDigambar Jain Vratoddyapan Sangrah
Original Sutra AuthorN/A
AuthorFulchand Surchand Doshi
PublisherDigambar Jain Pustakalay
Publication Year1986
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy