________________
दि० जैन व्रतोद्यापन संग्रह |
श्री वीतरागाय नमः ।
श्रीमदाशाघरकृतः महाभिषेकः ।
ॐ जय जय नमः सिद्धेभ्यः ।
श्रीमन्मन्दर मस्तके शुचिजलैर्धोते सुदर्भाक्षते । पीठे मुक्तिवरं निधाय रचितास्तत्पाद पुष्पस्रजः ॥ इन्द्रोऽहं निजभूषणार्थममलं यज्ञोपवीतं दधे । - मुद्रा कङ्कणशेखरानपि तथा जन्माभिषेकोत्सवे | इति इन्द्रस्थापनं ।
१२]
ॐकार बिंदुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमोनमः ॥ १ ॥ मंगलं भगवानर्हन, मंगलं भगवाजिनः । मंगलं प्रथामाचार्यो मंगलं वृषभेश्वरः ॥ २ ॥ - मंगल प्रथमं लोकेषूत्तम शरणं जिनं । -नत्वायमर्हतां पूजाक्रमः स्याद्विधिपूर्वकं ॥ ३ ॥ विज्ञान' विमलं यस्य भासते विश्वगोचरं । नमस्तस्यै जिनेन्द्राय सुरेन्द्राभ्यर्चितां || ४ | श्रीमद्भिर्जिनराज जन्मसमये स्नानक्रमप्रक्रियां ।
मेमू पयः पयोनिधिपयः पूर्णैः सुवर्णात्मकः ॥ कामं मामितश्रियं घटशतैः शक्राचयश्चक्रिरे ।
तामत्रार्यजनानुरागजनन जातोत्सवे प्रस्तुवे ॥ ५ ॥ ॐ ह्रीं श्रीं क्षीं भूः स्वाहा (प्रस्तावनाय पुष्पांजलिः) ।