________________
दि० जैन व्रतोद्यपिन संग्रह। इदमयं पाद्यं जलं गन्धं अक्षतं पुष्णं दीपं धूपं चरु बलि फलं स्वस्तिकं यज्ञ भागं यजामहे प्रतिगृह्यतां२ स्वाहा । यस्यार्थं क्रियते पूजा० शांतिधारा ॥ २ ।।
दक्षिणस्यां दिशि जीमूतश्यामलांग कलुषितनयन कासरं चाधि रूढः । छायाजायासहायः स्फुरदुरगमनोभूषणो माषवर्णः ।। अस्यामाहूयमानो मखभुवि यमराट् कुन्तलोदंबुदालिः । सोऽयं दंडोद्धपाणिः प्रथयतुधरणी दक्षिणाशावकाशां।३।
ॐ आं क्रों ह्रीं कृष्णवर्ण प्रशस्त सर्व लक्षण संपूर्ण स्वायुध वाहन वधू चिह्न सपरिवार हे यमदेव ! अत्रागच्छागच्छ संवौषट् स्वाहा । ॐ आं क्रों ह्रीं अत्र तिष्ठ२ ठः ठः स्वाहा। ॐ आं क्रो० अत्र मम सन्निहितो भव भव वषट् स्वाहा ।
ॐ यमाय स्वाहा। यम परिजनाय स्वाहा । यमुनाचराय स्वाहा । यममहत्तराय स्वाहा । अग्नये स्वाहा। अनिलाय स्वाहा । वरुणाय स्वाहा । प्रजापतये स्वाहा । ॐ स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । स्वधा स्वाहा । हे यमदेव ! इदमयं मित्यादि । यस्यार्थं क्रियते पूजा० इत्यादि । शांतिधारा ॥ ३ ॥
नैऋर्तकोणे। धर्म ध्यानार्कभीत्यांतकवरुणदिशोरंतरेऽप्योक्यदेशे । पुज्जीभूतांधकारांजनगिरिसदृशं श्यामरक्षोऽधिरूढः ॥ नीलांगो यज्ञभूम्यामतिनिशित महामुद्गरव्याप्तमुष्टिः । सोऽस्यां पायादपायान्निजदिशि वसुधां यातुधानप्रधानः॥४॥