________________ प ** *ीमेलतुङ्गशिविरथित श्रीनामाकराजाधारितम् S तीर्थसेवा चिकीर्भूमानापृच्छयाऽथ विधिं गुरुम्॥ . धर्मध्यानैकलीनात्मा त्रिकालं पूजयन् जिनम् / / 222 // अहोरात्रं पवित्राङ्गो महामन्त्रमसौ स्मरन्। साधून साधर्मिकाश्चापि प्रतिपारणकं स्वयम् // 22 // सत्कारयन् यथायोग्यं भक्तपानर्यथोचितैः॥ मासन दश षष्ठानि निरम्भांसि वितेनिवान् // 224 // अन्वयः अथ तीर्थसेवाचिकी: भूमान् गुरून् विधिम् आपृच्छय धर्मध्यानैकलीनात्मा त्रिकालं जिनं पूजयन् // 222 // पवित्राङ्गः असौ अहोरात्रं महामन्त्रं स्मरन् प्रतिपारणकं स्वयं साधून साधर्मिकान् च अपि // 223 // यथायोग्यं यथोचितैः भक्तपान: सत्कारयन् मासेन दश षष्ठानि निरम्भांसि वितेनिवान् // 22 // विवरणम:- अथ अनन्तरं तीर्थस्य सेवा तीर्थसेवा। तीर्थसेवां चिकीर्षति इति तीर्थसेवाचिकी: तीर्थसेवां कर्तुमिच्छ:, भूः अस्यास्तीति भूमान् नृपः गुरून् विधिम् आपृच्छ्य धर्मस्य ध्यानम् धर्मध्यानम्। धर्मध्याने एव लीन: आत्मा मन: यस्य सः धर्मध्यानैकलीनात्मा धर्मध्याने एवलीनमना: त्रयाणां कालानां समाहार: त्रिकालं त्रिसन्ध्यं जिनंजिनेश्वरं पूजयन् // 222 // पवित्राणिशुदानि अङ्गानि यस्य सः पवित्राङ्गःशुद्धाङ्गः असौ नाभाक: अहश्च रात्रिश्च एतयो: समाहार: अहोरात्रं रात्रिन्दिवं महान् चासौ मन्त्रच महामन्त्र: तं महामन्त्रं परमेष्ठिमहामन्त्रं स्मरन् सन् पारणे पारणे प्रतिपारणकं स्वयं साधून समान: धर्म: येषां ते साधर्मिका: तान् साधर्मिकान् अपि // 223 // // 224 // योग्यमनतिक्रम्य यथायोग्यं यथोचितैः भक्तानिच पानानिचभक्तपानानि तै: भक्तपानै: विविधान्नपेयैः सत्कारयन् सम्मानयन् मासेन दश षष्ठानि निर्गतमम्भ: जलं येभ्यस्तानि निरम्भांसि निर्जलानि वितेनिवान् चक्रे.॥२२॥॥२२॥ ગુજરાતી:- તીર્થસેવા કરવાની ઈચ્છા રાખનાર નાભાક નૃપે ગુરુ મહારાજને વિધિ પૂછી, ધર્મધ્યાનમાં લીન આત્માવાળો થઈ,