SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ एतादृशानि तु वृत्तानि बहूनि तेनाऽऽचरितानि देवपुस्तकारूढानि जातानि / तथापि ज्योतिश्चन्द्रस्तदा तानितुन कानिचिदपीत्यमन्यत / स तु मन्यते स्म यत्-अनुष्टुब्-प्रज्वलतु गृहं कस्या-पि वा मरतु पुत्रकम् / किन्तु निजात्मनः कार्य, येन केनापि जायतु // 1 // तयाऽप्यज्ञानाज्धानां जगति ह्ययं सज्जनो गण्यते स्म / व्यवहारकुशलतावचनचातुरीघर्चतादिकलया तस्य कालकृत्यान्यप्रकटी-भवन्ति स्म / कदाचिच्च कोऽप्यन्यायं पश्यति स्म जानाति स्म वा सदपि सत्यं कथयितुं न शक्नोति स्म / स्वकीयदुःस्थिततया वा नैव प्रभवति स्म / पुण्यप्राबल्यात्तस्य परलोकपीडायास्तु भी नाऽऽसीदेव, यतो-'भवान् स्वर्ग गमिष्यति, भवत्कृते स्वराण्युद्घाटितान्येव सन्ति, धु-लोको वा भवंतं समीहते' इत्यादि प्रसत्ति-कारकवचनप्रख्यापका ज्योतिर्विदादयस्तस्य सत्तादिभयकारणैः प्रभूता एव विश्वे विद्यन्ते स्म / परन्तु पापपुण्यानामपि सीमा तु भवत्येव // अन्येा ज्योतिश्चन्द्रस्य पापघदः संपूर्णो भृतवान् / एकदा जाफराख्यपातकिना स्वकार्यविरोधिमानवस्य घातो विहितः। स्वकीयमानवघातापराधः पुष्कलद्रव्यदानेन कूटसाक्षिकमनुष्य निशायामुच्चैः स्वरेण प्रभुमजनकारिणो भजनानन्दिमाधवदासाभिधनिरपराधिसाधोरुपरि निन्द्राभंगेjया तेन वधकेन प्रक्षिप्तः / जाफरदत्तप्रभूतधनलुब्धेन तेन ज्योतिश्चन्द्रेण न्यायाधीशेनाऽपि गतापराधसाधुनरवघाक्षेपवान् विहितः। जाफरस्थाने माधवदासः कारागृहे क्षिप्तः / न्यायकार्यमन्तिममेवाऽवशिष्टमासीत् / जाफरलाभ एवं न्यायनिर्णयो भविव्यतीति सम्भव आसीत् // हृदि स्थितपापशल्यं कदा कदा त्वेतादृशं तीनं भवति यत् क्रूरातिकूर-मानवोऽपि तत्सोई न शक्रोति / एवमेव जाफरस्य हृद्यप्येवं जोतं : मत्कृतं घातपापं निर्दोषसाधूपरि मया क्षेपितं तन्न वरं कृतमिति। अतस्तेन म्यायसभामागत्य नृपजनवृन्दराजवर्गीयपुरुषेषु स्थित्वा कथितं यज् जनवधस्तु मयैव कृतं किन्तु माधवदा P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036442
Book TitleHrutparivartanopari Jyotishchandrasya Charitram
Original Sutra AuthorN/A
AuthorRatnachandrajitswami
PublisherAshtkoti Bruhatpakshiya Sangh
Publication Year1956
Total Pages20
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy