________________ // श्रीमङ्गलाष्टकम् / / कर्ता- धर्मध्वजविजयो गणी ... नाभेयादि-जिनोत्तमा जितभया विश्वे सदा पावनाः, सौभाग्यावलिकारकाः सुखकरास्तीर्थङ्कराः शङ्कराः / विश्वानन्दकरास्तमोदिनकराः कन्दर्प-दापहा, रोगातङ्कहरा जनस्य सततं कुर्वन्तु नो मङ्गलम् // 1 // सिद्धाः शान्तरसाः स्वभावविमलाः शान्ति दधाना जने, सिद्धानन्तचतुष्टया अनिजरा-मृत्यादिभिर्वजिताः / राजन्तः शमिनो मनोऽमलगहे ध्यातानि कर्माणि यैर्ये ख्याता भुवनेऽखिले खलु तके कुर्वन्तु नो मङ्गलम् // 2 // विख्याता भुवि पुण्डरीकगणिनः श्रीगौतमाद्यास्तथा, सूरीशा गुणशालिनो जिनमते श्रीभद्रबाहादयः / अङ्गोपाङ्ग-विशारदा गुणयुताः श्रीपाठका निर्मला, दान्ताक्षा मुनयोऽनघाः खलु समे कुर्वन्तु नो मंगलम् // 3 // सम्मेतावरवतामरगिरि - श्रीचित्रकूटाचला:, श्री सिद्धाचलपावको गजपदस्तारंग-वैभारको / श्रीकैलासनगोत्तमो हिमगिरिश्चम्पा-प्रभासादयो, विश्वे तीर्थमतल्लिकाः खलु समे कुर्वन्तु नो मंगलम् // 4 // श्रीजम्बूमुनिवसिंहगिरयः श्रीस्थूल - भद्रादयः, सन्तः श्रेष्ठि-सुदर्शनादय इमे गंगोमिशीलान्चिताः / . श्रीसङ्घो गुणशेवधिः प्रवचनाधारो जिनजितो, धर्मः सर्वदयामयः खलु समे कुर्वन्तु नो मंगलम् // 5 // ब्राह्मी चन्दनबालिका च सुलसा सीता सुभद्राऽन्जना, सेना शीलवती शिवा द्रुपदजा कुन्ती कलावत्यपि / रेणा राजिमती तथा नलनप * प्राणप्रिया देवकी, सत्योऽन्या अपि शोभनाः खलु समाः कुर्वन्तु नो मंगलम् // 6 // P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust