________________ आगमोद्धारककृतिसन्दोहे चरणाभावान् न वनिता नग्नाटस्तेन भुवि प्रथितः / सुच्छेदं मिथ्यात्वं मतेऽस्य घात्यपि न कायगो वेदः। स्त्रीणां, तत् कियदाख्यं नग्नाटस्तेन भुवि प्रथितः // 30 तत्वार्थाद्याः श्वेताम्बररचना मानिताः परं मोहात् / सत्योऽर्थो न तु विवृतो नग्नाटस्तेन भुवि प्रथितः / 36 त्यक्त्वा जैन्याख्यां स्वं निर्वस्त्र ख्यापयन् जनेऽलजः / निर्ग्रन्थार्थ लुम्पन नग्नाटस्तेन भुवि प्रथितः // 32 // निर्ग्रन्थाः पञ्चोक्तास्तत्वाधषु तत्र भूषोक्ता ! वस्त्राणां लुम्पंस्तन् नग्नाटस्तेन भुवि प्रथितः // 33 // चरणे मोहनमुक्तं न चास्ति वस्त्रस्य मोहनं किश्चित् / निर्वस्त्रं निमूलं नग्नाटस्तेन भुवि प्रथितः // 34 // ग्रह आश्रवेषु नोक्तो नेऽतिचारे च जैनशास्त्रेषु / / किन्तु परिग्रह इति वाग नग्नाटस्तेन भुवि प्रथितः / 35 सविशेषणेन गदितं यत्तु निषेधाय तद्विधि बते / __सामान्ये सिचयात्तद् नग्नाटस्तेन भुवि प्रथितः // 36 // तत्वार्थेपि तदीये मूर्योक्ता यत्परिग्रहत्वेन / न परिग्रहमुपकरणं नग्नाटस्तेन भुवि प्रथितः // 37 // सिद्धिर्न स तुषवच्चेत सकायसिद्धिस्तदा भवेत् किं नु / दहनयुताऽक्षतसिद्धिः नग्नाटस्तेन भवि प्रथितः // 38 // सम्यग्दर्शनशुद्धं ज्ञानं चरणं मतं शिवे हेतुः। नाग्न्यं त्वजगलकुचवन् नग्नाटस्तेन भुवि प्रथितः // 39 / P.P. Ac. Gunratnasuri M. in Gun Aaqadhak Trust ned by CamScanner