________________ प्रागमोद्धारक कृति सन्दोहे संशोध्य च हस्तशतं, ज्ञात्वा प्रसवं च योषिदादीनाम् / अस्थ्यादि बहिः क्षिप्त्वा, वसतिं शुद्धां प्रवेदयति // 4aa कालग्राही तु मुनिः, प्रेक्ष्य मुखानन्तकं विनयकर्म / कृत्वा वसतिं शुद्धां, कालं च गुरोः प्रवेदयति // 49 // उपयुक्तः स्वाध्यायं, प्रस्थापयतेत्र वाचनाचार्यः। सिद्धान्तोदितविधिना, तदनुज्ञातस्ततः शिष्यः // 50 // शीततु चतुर्मास्यां, प्रेक्ष्य मुखानन्तकं गुरोः पुरतः / . सन्देश्य च कल्पं ह्रस्ववन्दनाभ्यां परिदधीत // 51 // दवाऽध्यापकपुरतो, वन्दनकं ह्रस्ववन्दनयुगेन / सन्देश्य वाचनामथ, सूत्रमधीयीत मण्डल्याम् // 52 // मण्डल्यः सप्त ताः, सप्वर्थे च भोजने काले / . आवश्यक तथैव, स्वाध्याये संस्तरेऽभिहिताः / / 531 साधुम्य उपाध्यायो, दत्ते सूत्रस्य वाचनां निपुणः / सिंहगिरेः शिष्येभ्यो, वज्रस्वामीव गणनाथः // 54 // कुर्वन्ति स्वाध्याय, गीतार्था यदुपयोगवेलायाम् / स हि दर्शितोऽधुना तैराचारः सूत्रपौरुष्याः // 55 // उपयोगः किल भक्तादिलब्ध्यनुज्ञा ततश्च भङ्गोऽस्य / .. पतितरजोहरणादावन्यजल्पति च किमपि सुनौ // 56 // गुरवे निवेदिते बहुप्रतिपूर्णा पौरुषीति लघुमुनिना। पादोनप्रहरे सति, पर्यन्तः स्त्रपौरुप्याः // 57 // P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner