________________ आगमोद्वारक-कृतिसन्दोहे 120 सर्वथा कारणोच्छेदाद् भवेत् कार्यमहेतुकम् / तच्छक्त्यवयवाधार-स्वभावानामनन्वयात् / / 32 // नित्यं योगी विजानाति क्षणिक नेति का प्रमा। देशनाया विनेयानु-गुण्येनापि प्रवृत्तितः / / 33 // नान्वयस्तद्विभेदत्वाद न भेदोऽन्वयत्तितः / मृद्ध दद्वयसंसर्गवत्तिजात्यन्तरं हि तत् // 34 // द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः / क्व कदा केन किं रूपा दृष्टा मानेन केन वा 1 // 35 // . अन्योऽन्यव्याप्तिभावेन द्रव्यपर्याययोः कथम् / भेदाऽभेदो विरुद्धः स्यात् तद्भावानुपपत्तितः / / 36 // नान्योऽन्यव्याप्तिरेकान्त-भेदेऽभेदे च युज्यते / अतिप्रसङ्गाच्चैश्याच्च शब्दार्थानुपपत्तितः / / 37 / / अन्योऽन्यमिति यदभेदं व्याप्तिश्चाह विपर्ययम् / भेदाभेदे द्वयोस्तस्मा दन्योऽन्य व्याप्तिसम्भवः // 38 // एवं शबलरूपेऽस्मिन् व्यावृत्त्यनुगमावपि / स्याद्वादनीतितः सिद्धौ यथाऽनुभवसुस्थितौ // 39 // इत्थं प्रमाणसिद्धऽस्मिन् विरोधोदभावनं नृणाम् / / व्यसनं धीजडत्वं वा प्रकाशयति केवलम् // 40 // [पू. आगमोद्धारक-आचार्यप्रवर-श्रीआनन्दसागरमरिकता ___ अनेकान्तवाद-विचारः समाताः एवं शवलसिद्धौ यथाऽनं नृणाम् / P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner