________________ 204 आता आगममहिमा कृतघ्नता-बुद्धिधरान् समस्तान , जीवान् भवात्तारयितुमुदकम् / अभावयन्नुत्तमसत्त्वधारी, सदागमोऽयं सततं प्रवृत्तः // 34 // सदागमाश्चैव सदागमा भुवि, कृतघ्नतां ये भवभावभाविनीम् / विदन्त आशूपगतां नराणां, सदा सदानन्दपदाय मग्नाः // 35 // अतितरां ननु नैव विराधितो, जिनपतिस्तनुते विविधां व्यथाम् / करणयोगभुवा क्रियया पुन-यदि च ( भवति ) लेशत जा आगमजो विधिः // 36 // विराधना या जिनराजराज्या, विशोध्यते सा गुरुनोदनाद्यैः / परं विराद्धा विशदाऽऽगमाऽऽज्ञा, भवं दुरन्तं तनुते समेषु // 37 // जिनोऽपि सार्वो निखिलं विदन्नपि, प्रसङ्गप्राप्तं निरवद्यमावम् / .... साधुव्रजोद्धारपदं न चानु-जानाति चेदागमवाग्-विरुद्धम् // 38 // यदपि केवलमुत्तमतां गतं, निखिलवोधकता न परे यतः / तदपि नन्दिपदं जिनपागमाः, क्षणपदं तत एत इहाहते // 39 // शुद्धेः पदं जिनमते भविनां यदाऽऽदा' वावर्त्तमन्त्यमधिगच्छति कालसौम्यात् / न्यायात् सदन्धकरणा द्रुचिरागमानां, 2 जागर्त्यहो ! जनिभृतां (भुवि तदा) करुणाऽसमा वः // 40 // नीतिः सत्तमगोचरा ननु जने पूज्यत्वदानं परे, चक्री यत्कुरुते महोत्सवपदं चक्रं स्वकं मोदतः / ... सत्यं तद् भवतारकाङ्कितपदं भो आगमाः शाश्वताः, यूयं दत्थ जिनेन्द्ररोजय इह प्रोदामपूजान्वितम् // 41 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust