________________ जैनगीता / 153 सर्वोऽप्यसौ समभवत् प्रभुहीरनाम्ना, . मूलं तु तस्य तप आइतिश्चम्पिकायाः. // 2 // भवेत् प्रतिष्ठा जिनबिम्बराज्याः, प्रभुत्व भावं यदियं विदीपयेत् / सर्वाङ्गशुभ्रापि न पूज्यतापदं, श्राद्धया युतोऽस्यां(न) विधायको धवः // 63 / / चैत्ये च यत्रापि जिनाकृतीनां, पटे प्रतिष्ठापनमाद्रियेत / तत्रापि तासामधिकारभावो, विशेषतश्चात्र विनामनाविधौ // 64 / / याः सद्धवा अत्र विमाननाविधौ, समाद्रियन्ते न च ता अतीयुः / दुःखानि दौर्भाग्यभवानि कान्यपि, यावद्भवं शान्तिसुखान्युपेयुः // 65 // यद्यप्यनीशैः सत्कारलेशः, शरीरशोभावहको न्यपेधि / तत्सत्कपोषस्य निपेधनात् परं, तीर्थोन्नतौ किन्तु स सेवनीयः // 66 / / यदेव कर्माश्रवणाय कृत्यं, संसारहेतोरघनिर्जराय / तदेव धर्मोन्नतिकार्यहेतो-यंदाश्रवास्ते हि परिश्रवा यत् / / 6 / / जिनाधिपानां रुचिराणि यानि, दिनानि कल्याणवराङ्कितानि / एकाशनामारि-रथोत्सवैश्च, श्राद्धीजनः शोभयतेऽङ्गची रैः // 68 / / कल्याणकेषु प्रवरां न पूजां, श्राद्धीजनो वाऽपर आर्हतः सन् / जिनेश्वराणामविधाय घस्रे-ध्वन्येषु कुर्वन्न भवत्युदारः // 69 / / चत्वार उक्ताः श्रमणप्रधाने, सङ्घ विभागाः परमग्रगामी / कार्येषु धर्मप्रवरेषु वर्गः , श्राद्धयो यतो भूरितमाः सुयत्नाः // 70 / / गृहेषु धर्मीय. उदारभावः, प्रवर्तते तत्कृत एव भूरिः / समानि कार्याणि तदुत्थमत्या, धर्मे हि जैनेश्वर आदरेण // 71 / / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust