________________ जैनगीता। 101 स्वयं संसाराब्धेस्तरणनिपुणस्तारयति बै, गता धर्मारामं न भवति विदुषां स्वान्यविभिदा. // 51 // इति पञ्चविंशोऽध्यायः / / / पड्विंशोऽध्यायः / (ज्ञानाधिकारः) जैनोऽसौ नियतं तनोति मतिमान् यो ज्ञानकार्य सदा, जैनं यद् भुवि शासनं विजयते हत्वान्यतीर्थप्रभाम् / सोऽनों महिमा प्रचण्डतरको ज्ञानप्रभावोत्थितः, प्राप्तेष्वन्धनरेपु यद्बहुतरेष्वीक्षाधरः श्लाघ्यते . // 1 // ज्ञानेन जातं भुवि जैनतीर्थं, ज्ञानेन तत्स्थापितमर्हता पुनः / ज्ञानप्रवृत्तिं भुवि जायमाना-मपेक्ष्य तीर्थं जगतीह वर्तते // 2 // ज्ञानस्यैष महः परात्परतरो, जागर्त्यनूनः परस्तीर्थेशां परिपत्सु यच्छ्रतधराश्छद्मस्थभावान्विताः / गच्छेशाः श्रुतकेवला निखिलविद्वन्दात् पुरः स्थानगास्तानादौ च नमस्करोति निखिलः शेषः सभासज्जनः // 3 // मुनीश्वराणां गणानायकत्वे, स्थाप्ये मता या निखिला गुणालिः / सर्वाऽपि सा युक्ततमाऽपवादः, परं श्रुताऽऽधारगुणे त्वसौ न // 4 // क्रियाविहीनेऽपि मुनौ जनानां, मिथ्यात्वभावो न तथाकृतिश्चेत् / गीतार्थतायां सुमुनौ (च) तद्वद्, भवेदयं चेच्छ्रतधारको न // 5 // . P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust