________________ ज्ञात पर्युषणा // 59 // . आगमो. परंतस्वथा. तिथिपरावृत्तिः कथमौचितिमश्चति ?'इति चेद् / .... ..... द्वारककृति ... सत्यम् , परं प्रागेव प्रतिपादितं, यत्संवत्सरदिनान्तमनन्तानुबन्धिनामभाव इति द्वितीयवर्षेऽन्यदा च. सन्दोहे तथा चतुर्थी सांवत्सरिकस्यापातो 'दुर्धरः स्यादिति / अत एव सा परावृत्तिराचरणारूपा नतु व्यक्तिकृतिरू पेति सुधियोह्यमिति / एतत्सर्वमपि खरतरसन्तानीयानां सम्मतमेवः / यतस्तेऽपि चतुर्थ्यादिष्वेव सांवत्सरिकादि. HI कुर्वन्ति / यतस्तेऽपि.स्वीकुर्वन्त्येव पाक्षिकादिदिनातिक्रमेऽपराधादिक्षामणायां प्रत्याख्यानावरणादीनामनन्तानुबISiध्यादीनामापत्तिमिति / तथा च सांवत्सरिककृतौ ज्ञानाद्याराधनासंचलितजिनाज्ञारूपो हेतुः, अपराधक्षामणा दिस्वरूपं, प्रत्याख्यानाद्युदयनिवारणादि फलमिति / किञ्च-गृहिज्ञावपर्युषणा कल्पकर्षणवर्षावाससामाचारीस्थापनादिसाध्या, सांवत्सरिकं तु चैत्यमहोत्सवसकलसाधुवन्दनलोचाष्टमतपाक्षामणादिसाध्यमिति / सत्स्वपि हेतुस्वरूपफलसाधनादिगतेषु भेदेषु न भेद्रो गृहिज्ञातपर्युषणासांवत्सरिकयोरिति कदाग्रहपूर्वकं ब्रुवतां वक्त्रं न वक्रीभवति तद् दुष्षमाकालखलायितात् किमपेरहेतुकं भवेत् 1 // अन्यच्च खरतरसन्तानीया अपि. पूर्वसांवत्सरिकदिनादैषमसांवत्सरिकदिनमेकदिनेनाधिकमपि स्यात्तर्हि अनन्तानुबन्ध्यापातमूलपायश्चित्तावलोकनेन युगप्रधानः श्रीकालकाचार्यैः पञ्चम्या एकदिनेनागिपर्वरूपायामपि चतुर्धामाचीर्ण सांवत्सरिक्रमनुमन्यमानो अपर्वरू: पायां भाद्रपदशुक्लचतुर्थ्यामेव कुर्वन्ति, न तु पर्वरूपायामपि भाद्रपदशुक्लपञ्चम्यां / ननु च यदि तेऽनन्तानुबन्ध्यायापातभयात् साम्पतमेकदिनोल्लङ्घनभयादपर्वचतुर्थी सांवत्सरिकं कुर्वन्ति, तर्हि अभिवर्धिते. वर्षे श्रावणामाः द्रपदयोवृद्धौ सत्यां द्वितीयश्रावणे. प्रथमे भाद्रपदे वा शुक्लचतुलं सांवत्सरिकं कुर्वन्ति, द्वितीयवर्षे चं: भाद्रपदशुक्लचतुर्थ्यामेव कुर्वन्तः सांवत्सरिकं. किं न शोचन्ति एकदिनाधिक्यांहीतानां. मासप्रमाणस्य महतः कालातिक्रमस्यावगणनात, किं तत्रानन्तानुबन्ध्यापातादि तेषां बाधाकर नेति / अत्रार्थे त. एव प्रष्टव्या। IMP.AC.Gunratnasuri M.S. -. e Jun Gun Aaradhak -