________________ गाथा-४७-४९ _ ३-चैत्यवन्दनविधि-पञ्चाशकम् 43 शुभफलजननस्वभावान् शुभकार्योत्पादनप्रकृतीन् चिन्तामण्यादिकानपि आदिशब्दात् कल्पद्रुम-कामधेन्वादिपरिग्रहः, वस्तुविशेषान् नाभव्यास्तत्प्राप्त्योरपि प्राप्नुवन्ति लभन्ते, किं पुनरिमां भाववन्दनां परमां प्रधानां परमपदबीजमिति मोक्षहेतुभूताम्, तस्माद्भव्या एवेमाम् [भाववन्दनां] प्राप्नुवन्ति / // 46 / / (अभव्यास्तावदिमां न प्राप्नुवन्ति, भव्या अपि न सर्व एवेति दर्शयन्नाह - अटी.) अत्रैव विशेषाभिधानमाह - भव्वा वि एत्थ णेया, जे आसन्ना न जातिमेत्तेणं / जमणाइ सुए भणियं, एयं न उ इट्ठफलजणगं // 141 // 3/47 भव्या अप्यत्र ज्ञेया ये आसन्नाः मुक्तेरिति गम्यते, न जातिमात्रेण भव्यत्वेनैव यदनादि, श्रुते सिद्धान्ते भणितमुक्तम् एतद् भव्यत्वं [जातिभव्यत्वम्] न त्विष्टफलजनकम् / सर्वभव्यानां मुक्त्यनवाप्तेः सामग्रीवैकल्याद् / योग्यतामात्रभव्यत्वाभ्युपगमात् केषाञ्चिदेव सिद्ध्यताम् तदिष्टफलजनकम् / सेत्स्यतां तु सामान्येनैव भव्यत्वम्, 'सेत्स्यन् भव्यः 'इति [ ] वचनात् / तल्लक्षणं चेदं सिद्धरात्यन्तिक्याः शुद्धानां परमनिर्वृतेर्यस्मात् तदभिज्ञातभव्यस्योक्तं भगवद्भिरर्हद्भिः // 47|| तस्मादासन्नभव्या एवात्र ग्राह्या इत्याह - विहिअपओसो जेसिं, आसन्ना ते वि सुद्धिपत्त त्ति / खुद्दमिगाणं पुण सुद्धदेसणा सिंहनादसमा // 142 // 3/48 विधावप्रद्वेषो येषामासन्नास्तेऽपिशुद्धिप्राप्ता इति कृत्वा विधिकरणेऽपि क्षयोपशमविशेषाद्विध्यप्रद्वेषवतो विशुद्धिप्राप्तत्वादासन्ना इह गृह्यन्ते / क्षुद्रमृगाणां कृपणभीरूणां पुनः शुद्धदेशना विधिदेशना क्रियमाणा, सिंहनादसमा सिंहध्वनितुल्या सन्त्रासहेतुत्वाद् / यथोक्तं-शुद्धदेशना हि क्षुद्रसत्त्वमृगयूथसन्त्रासनसिंहनादः // 48 // __ तस्मात्तेषां तदुपकारिण्येव देशना युक्ता, मार्गावतारभावेन तद्धितोपपत्तेरिति प्रज्ञापकोपदेशमाह - आलोचिऊण एवं, तंतं पुव्वावरेण सूरीहिं / विहिजत्तो कायव्वो, मुद्धाण हियट्ठया सम्मं // 143 // 3/49 आलोच्यैवम्, तन्यन्ते विस्तार्यन्तेऽर्था अनेनेति तन्त्रं सूत्रम् / पूर्वापरेण पूर्वापरप्रकाराभ्यामविरोधेनेत्यर्थः। सूरिभिराचार्यैः विधियत्नः कर्त्तव्यो विधातव्योऽभिधेयः, मुग्धानामज्ञानानां