________________ गाथा-१-३ १-श्रावकधर्मविधि-पञ्चाशकम् इष्टविशिष्टदेवतानमस्कारपूर्वकं प्रयोजना-ऽभिधेय-सम्बन्धत्रयप्रदर्शनाय गाथां निजगाद नमिऊण वद्धमाणं, सावगधम्मं समासओ वोच्छं / सम्मत्ताई भावत्थसंगयं सुत्तनीईए // 1 // 1/1 नत्वा प्रणम्य, वर्धमान महावीरस्वामिनम्, श्रावकधर्मं श्रावको वक्ष्यमाणः, तस्य धर्मः, तम् / समासतः सङ्केपेण, वक्ष्येऽभिधास्ये। सम्यक्त्वादयो भावा विशेषलक्षणाः, त एवार्थास्तैः सङ्गतं युक्तम् / सूत्रनीत्यागमनीत्या / ___अत्र 'नत्वा वर्धमानम्' इत्यनेन देवतानमस्कार उक्तः, अर्हत्त्वं च गुणतः, देवतात्वं च परमगत्यवाप्त्या। 'समासतो वक्ष्ये' इत्यनेन समासप्रतिपादनम्। 'सूत्रनीत्या' शिष्येभ्यः प्रकरणप्रयोजनमाह / 'श्रावकधर्मम्' इत्यनेनाऽभिधेयम् / सम्बन्धस्तु प्रकरणप्रयोजनोपायोपेयलक्षणः सामर्थ्यगम्य एव तर्कानुसारिणः, तथाहि - शब्दसन्दर्भरूपं प्रकरणमुपायस्तदर्थप्रतिपादनं तु शिष्यगतमुपेयम् / उक्तं च - अस्येदं फलमित्येवं, योगः सम्बन्ध उच्यते / तथाऽप्यन्तर्गतत्वेन न पृथक् कैश्चिदिष्यते // 1 // [ ] इति 'श्रावकधर्मं वक्ष्ये' इत्युक्तम्, तत्र कः श्रावकः, यस्यायं धर्म: ? इत्याह - परलोगहियं सम्मं, जो जिणवयणं सुणेइ उवउत्तो / अइतिव्वकम्मविगमा, सुक्कोसो सावगो एत्थ // 2 // 1/2 ___ परलोकाय हितम् पथ्यम्, सम्यगविपरीतम् यः पुरुषो [जिनवचनं] जिनधर्मः स्वाध्यायचारित्रलक्षणम्, शृणोति [उपयुक्तः उपयोगयुक्तः] आकर्णयत्युपादेयबुद्ध्या / अतितीव्रकर्मविगमादतिक्लिष्टमिथ्यादर्शनमोहनीयकर्माऽपगमात्, [सः] उत्कृष्टसम्यग्दृष्टितया श्रावकोऽत्र [उच्यते // 2 // किं पुनः सम्यक्त्वं यत्सम्बन्धादसौ श्रावकः ? इत्याह - तत्तत्थसद्दहाणं, सम्मत्तमसग्गहो न एयम्मि / मिच्छत्तखओवसमा, सुस्सूसाई उ हुंति दढं // 3 // 1/3 तत्त्वार्थश्रद्धानं सम्यक्त्वम्, असद्ग्रहो विपरीतबोधो मिथ्यावबोधो नैतस्मिन् सम्यक्त्वे सति मिथ्यात्वक्षये [क्षयोपशमे] यस्माद्धेतोः शुश्रूषादयस्तु शुश्रूषा-श्रवण-ग्रहण-धारणादयः पुनर्भवन्ति दृढमित्यर्थः /