________________ गाथा-२१-२३ १८-भिक्षप्रतिमा-पञ्चाशकम् 235 ग्रामादिभ्यो बहिः ईषत् प्राग्भारगतः भाराक्रान्तपुरुषवत्, अनिमिषनयनो निमेषरहितलोचनो देवाद्युपसर्गेषु / एकदृष्टिरेकरूपीपुद्गलनिरुद्धदृष्टिः // 19 // ___ संहृत्य चतुराङ्गलान्तरौ, द्वावपि पादावेकीकृत्य, व्याघारितपाणिः प्रलम्बितपाणिः तिष्ठति स्थानं / वाघारितपाणिः लम्बितपाणिर्लम्बितभुजः, अन्ते च पर्यन्ते च, सर्वप्रतिमानाम्, अस्या एकरात्रिक्या, लब्धिाभो जायते न प्राक्, प्रकर्षवर्तित्वादस्याः, आसां च प्रतिमानां सर्वासामेव प्रतिकर्म तावत् प्रमाणं यावत्प्रतिमानुष्ठानं मासादिसप्तमासान्तम्, वर्षासु च न प्रतिमाप्रतिपत्तिः / प्रथमद्वितीय-तृतीय-चतुर्थप्रतिमानां सम्भवत्येकवर्ष एव परिकर्मानुष्ठाने, तत्त्वतस्तु साऽद्या द्वितीयप्रतिमा सपरिकमैकसंवत्सरे सम्भवति, पञ्चम्यास्त्वारभ्याऽन्यसंवत्सरे, परिकर्माऽन्यसंवत्सरे चानुष्ठानम् // 20 // __एवमागमनीत्या प्रतिमाकल्पे प्रतिपादिते तदयुक्तत्वसम्भावनया विषयविभागमनवगच्छन् पृच्छति - आह न पडिमाकप्पे, सम्मं गुरुलाघवाइचिंत त्ति / गच्छाउ विणिक्खमणाइ न खलु उवगारगं जेण // 867 // 18/21 आह प्रतिमाकल्पे पूर्वोक्ते, सम्यग् न्यायेन, गुरुलाघवादिचिन्तेति गुणगौरव-दोषलाघवविशिष्ट-फलसाधकत्वाऽऽलोचना, गच्छात् समूहाद् विनिष्क्रमणादि विनिर्गमैकविहारितादि, न खलु नैव उपकारकमुपक्कर्तृगुरुसाध्वादीनां, येन कारणेन // 21 // [कथं नोपकारकं? इत्याह, अटी.] - तत्थ गुरुपारतंतं, विणओ सज्झाय सारणा चेव / वेयावच्चं गुणवुड्डि तह य णिप्फत्ति संताणो // 868 // 18/22 तत्र गच्छे, गुरुपारतन्त्र्यं गुर्वधीनत्वम्, विनयस्तदुचितानाम्, स्वाध्यायः पञ्चप्रकारो वाचनादिः सम्पूर्णः, स्मारणा चैव क्वचिद्विस्मृतेः, वैयावृत्यं व्यावृत्तभावकर्मरूपम्, (व्यावृत्तभावस्तत्कर्म वा अटी.) गुणवृद्धिः ज्ञानादिगुणाभिवृद्धिगुर्वादिभ्य एव, तथा च समुच्चये, निष्पत्तिः शिष्याणाम्, तथाविधगुर्वादिभ्य एव, सन्तानः शुभसाध्वादिशिष्यसन्तानः // 22 // दत्तेगादिगहोऽवि हु, तह सज्झायादभावओ न सुहो / अंताइणो वि पीडा, न धम्मकायस्स य सुसिलिटुं // 869 // 18/23 एकादिदत्तिग्रहोऽपि तदभिग्रहरूपः / हुर्वाक्यालङ्कारे / तथा स्वाध्याय नैरन्तर्येण स्वाध्यायाधभावतः स्वाध्यायध्यानादिविरहेण न शुभो न श्रेयान्, गच्छे तु निरन्तरस्वाध्यायादिसद्भाव उभयप्रतीतः / अन्तादिनोऽप्यन्तप्रान्तरूक्षजीवनभोजिन इत्यर्थः / पीडा बाधा, न [च] नैव