________________ 202 १५-आलोचनाविधि-पञ्चाशकम् गाथा-४३-४७ अवगाढाः // 42 // उद्धरियसव्वसल्ला, तित्थगराणाएँ सुत्थिया जीवा / भवसयकयाइ खविउं, पावाइ गया सिवं थामं // 737 // 15/43 उद्धृतसर्वशल्या आकृष्टसूक्ष्मेतरभावशल्याः, तीर्थकराज्ञया तीर्थकरोपदेशेन, सुस्थिताः सुखिनो गुणस्थिता वा जीवाः, भवशतकृतानि मनुष्यतिर्यक्प्रभृतीनि भवशतनिर्वतितानि, क्षपयित्वा प्रक्षपय्य, पापानि कर्माणि, गताः प्राप्ताः, शिवं निरुपद्रवं मुक्त्याख्यं स्थानम्॥४३।। सल्लुद्धरणं च इम, तिलोगबंधूहिँ दंसियं सम्मं / अवितहमारोग्गफलं, धण्णोऽहं जेणिमं णायं // 738 // 15/44 शल्योद्धरणं चेदमागमप्रत्यक्षम्, त्रिलोकबन्धुभिः सर्वजीवबान्धवैरर्हद्भिः देशितं कथितम्, सम्यगविपरीतम्, अवितथं सत्यम्, आरोग्यफलं भावारोग्यफलम्, धन्यः पुण्यभाग् अहं येन मया इदं शल्योद्धरणं ज्ञातं विदितं स्वरूपतः // 44 / / ता उद्धरेमि सम्मं, एयं एयस्स नाणरासिस्स / आवेदिउं असेसं, अणिदाणो दारुणविवागं // 739 // 15/45 तत्तस्मात् उद्धराम्यपनयामि, सम्यङ्न्यायेन, एतत् भावशल्यम्, एतस्य गुरोः ज्ञानराशेर्ज्ञाननिकरस्य आवेद्य कथयित्वा, अशेषं सकलम्, अनिदानो निदानरहितः, दारुणविपाकं दारुणफलम् // 45 // इय संवेगं काउं, मरुगाहरणादिएहिँ चिंधेहिं / दढमपुणकरणजुत्तो, सामायारिं पउंजेज्जा // 740 // 15/46 ___ इत्येवमुक्तनीत्या, संवेगं श्रेयःप्रत्यवायोद्धारेण, कृत्वा स्वयमेव विधाय, मरुकोदाहरणादिभिश्चिकैः समयप्रसिद्धैर्मत्स्याद्याहारप्रवृत्तिप्रतिपादकैरन्त्यावस्थायां सद्भावालोचनपरैः, दृढमत्यर्थम्, / अपुनःकरणयुक्तः सावधप्रतिषेधनियमाऽन्वितः, सामाचारी शिष्टाचरितक्रियारुपां प्रयुञ्जीत कुर्वीत // 46 // कथं पुनर्भावालोचनां विदध्यादित्याह - जह बालो जंपंतो, कज्जमकज्जं व उज्जुयं भणति / तं तह आलोइज्जा, मायामयविप्पमुक्को उ // 741 // 15/47 यथा बालः शिशुः, जल्पन् भाषमाणः, कार्यमकार्यं वा स्वरूपतः ऋजुकमवक्रं भणति