SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ गाथा-३१-३४ _ १५-आलोचनाविधि-पञ्चाशकम् प्राणातिपातविरमणादयो निशिभक्तविरतिपर्यन्ता रात्रिभक्तविरतिपर्यवसानाः, श्रमणानां साधूनां मूलगुणा आदिगुणाः त्रिविधं त्रिविधेन ज्ञातव्याः कृतकारितानुमतिमनोवाक्कायरूपेण विज्ञेयाः // 30 // पिंडविसुद्धादीया, अभिग्गहंता य उत्तरगुण त्ति / एतेसिं अइयारा, एगिदियघट्टणादीया // 725 // 15/31 पिण्डविशुद्ध्यादिकाः पिण्डविशुद्धि-समिति-भावना-प्रतिमादयः अभिग्रहान्ताश्चोत्तरगुणा इति तत्पालनहेतवः / एतेषां मूलोत्तरगुणानाम् अतिचारा एकेन्द्रियसङ्घट्टनादिका एकेन्द्रियसङ्घट्टन-परितापनक्लमादिकाः // 31 // पुढवादिघट्टणादी, पयलादी तुच्छऽदत्तगहणादी / गुत्तिविराहण 'कप्पट्टममत्त दियगहियभुत्तादी // 726 // 15/32 पृथिव्यादिघट्टनादयः पृथिव्यप्तेजोवायुवनस्पति-द्वीन्द्रियादिसङ्घट्टनादयः / प्रचलादयः निद्राविशेषप्रचलादिविषयाः तुच्छं स्वल्पं यद् अदत्तं तद् ग्रहणादयः, गुप्तिविराधनयो नवब्रह्मचर्यगुप्तिविराधनप्रवृत्तयो, डिम्भरूपममत्वादयो ['कल्पार्थममता' - कल्पे वस्त्रादौ तिष्ठतीति कल्पस्थः कल्पेन वाऽर्थो यस्यासौ कल्पार्थः-शिशुः, तत्र ममता ममत्वं शय्यातरादिसम्बन्धित्वात् स्वीकरणं कल्पार्थममता। - अटी.] दिवागृहीत दिवाभुक्तादयः प्रत्येकं महाव्रतेषु रात्रिभोजनषष्ठेषु मूलगुणातिचाराः // 32 // (1. कप्पट्ठतमत्त. अटी.) [उत्तरगुणातिचाराः] - भोगो अणेसणीएऽसमियत्तं भावणाणऽभावणया / जहसत्तिं चाकरणं, पडिमाण अभिग्गहाणं च // 727 // 15/33 भोगः परिभोगः [भोजनं - अटी.] अनेषणीयोऽनेषणीयविषयः, असमितत्वं समितिप्रतिपक्षः / भावनानामनित्यत्वादीनाम् अभावनम् / प्राकृतत्वाद् भावप्रत्ययो / यथाशक्ति च शक्त्यनुरूपम् अकरणमनासेवनम्, प्रतिमानां मासिक्यानां समयोक्तानाम् अभिग्रहाणां च दण्डकप्रमार्जनादीनां द्रव्यक्षेत्रकालभावविषयाणां चाकरणमिति वर्तते / पिण्डविशुद्ध्याधुत्तरगुणानामेतेऽतिचाराः // 33 // एते इत्थऽइयारा, असदहणादी य गरुय भावाणं / आभोगाणाभोगादिसेविया तह य ओहेणं // 728 // 15/34 एतेऽत्रातिचाराः अश्रद्धानादयश्चाश्रद्धानं, विपरीतप्ररूपणादयः / गुरुका गुरवः, भावानां
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy