________________ गाथा-८-११ १०-उपासकप्रतिमा-पञ्चाशकम् 131 उक्ता दर्शनप्रतिमा, तदनन्तरमिदमाह - एवं वयमादीसु वि, दट्ठव्वमिणं ति नवरमेत्थ वया / घेप्पंतऽणुव्वया खलु, थूलगपाणवहविरयादी // 452 // 10/8 एवं व्रतादिष्वपि व्रतप्रतिमादिष्वपि दृष्टव्यमिदमिति प्रतिमाशब्दार्थप्रयोजनम्, व्रतधरस्य मूर्तिः सामयिकवतो मूर्तिरिति नवरमत्र व्रतानि, गृह्यन्त अणुव्रतानि खलु स्थूलकप्राणवधविरत्यादीनि सर्वाण्येव // 8 // तानि च भावतः कदा भवन्तीत्याह - सम्मत्तोवरि ते सेसकम्मणो अवगए पुहुत्तम्मि / पलियाण होति नियमा, सुहायपरिणामरूवा उ // 453 // 10/9 सम्यक्त्वस्य सम्यग्दर्शनस्य तल्लाभकालापेक्षयोपर्युपरितनकाले तानि व्रतानि शेषकर्मणस्तदावारकस्य अपगते प्रच्युते जीवप्रदेशेभ्यः कालतो जीववीर्याद्वा / पृथक्त्वे पल्यानां पल्योपमानां समयप्रसिद्धानामद्धापल्योपमानां यैर्नारक-तिर्यग्-मनुष्य-देवायुंषि निरूप्यन्ते, तेषां भवन्ति व्रतानि। नियमान्नियमेन शुभात्मपरिणामरूपाणि तु शुभश्चासावात्मपरिणामश्चतद्रूपाणि // 9 // पुनस्तानि के तत्सत्तासम्पाद्यफलमाह - बंधादि असक्किरिया, संतेसु इमेसु पहवइ न पायं / अणुकंपधम्मसवणादिया उ पहवति विसेसेण // 454 // 10/10 बन्धादि, बन्धवधच्छविच्छेदादिः असत्क्रियाऽसच्चेष्टा, सत्सु विद्यमानेषु एषुव्रतेषु परिणामरूपेषु प्रभवति प्रकल्पते न प्रायो बाहुल्येन स्थूलहिंसादिविरत्यात्मकत्वात् तेषाम् अनुकम्पाधर्मश्रवणादिका तु सत्क्रिया तु प्रभवति प्रभविष्णुतामनुभवति विशेषेणातिशयेन // 10 // उक्ता व्रतप्रतिमा, अधुना सामायिकमाह - सावज्जजोगपरिवज्जणादिरूवं तु होइ विण्णेयं / सामाइयमित्तरियं, गिहिणो परमं गुणट्ठाणं // 455 // 10/11 सावधयोगाः सापायमनोवाक्कायव्यापारास्तेषां परिवर्जनम्, आदिशब्दान्निरवद्ययोगासेवनमेवंरूपं तु सावधयोगपरिवर्जनादिरूपं तु पुनर्भवति विज्ञेयम् / सामायिकं समभावरूपमित्वरः स्वल्पकालः सोऽस्यास्तीति इत्वरिकं प्रतिनियतकालानुष्ठेयमित्यर्थः / गृहिणो गृहस्थस्य परमं प्रधानं गुणस्थानं गुणभाजनम् // 11 //