________________ गाथा-९ ७-जिनभवनविधि-पञ्चाशकम् विषयो(ये) परिशुद्धः भवति, परिशुद्धकर्ममलापगमेन जीववीर्योत्कर्षेण च / स एव शुभभावो जायते / बीजं कारणं बोधेर्बोधिलाभस्य सम्यग्दर्शनस्य / स्तेनज्ञातेन चौरोदाहरणेन-तच्चेदम् - ___ इह द्वौ, समाने वयसी वर्तमानौ दृढसंहननौ पुरुषकारसम्पन्नतयाऽक्लीबतां प्रतिपद्यमानौ प्रथमचौर्य एव तथाविधभवितव्यतया स्वकर्मसामर्थ्येन राजपुरुषैर्गृहीत्वा साधुप्रतिश्रयसामीप्येन निग्रहस्थानं नेतुमारब्धौ / तयोश्चैकस्य साधुक्रियादर्शनेन निराकुलभावतामुपलभमानस्याहो धन्याः खल्वेते सदा धर्मनिरतमानसाः, स्वहितप्रवणास्तिष्ठन्ति, अस्मादृशास्तु परद्रव्यापहारादिप्रवृत्ताः सङ्क्लिष्टमानसेहैव सुकृत-दुष्कृतफलविपाकमनुभवन्तः सुखं न प्रतिवेदयन्ते / तथाविधलोकोपहास्याश्च करुणास्पदभूता विदुषां स्वदोषानुतापमानसा दुःखमेव वेदयन्ते / तदेषां साधूनां सुजीवितं धर्मपराणाम्, नास्मदृशामिति चित्तवृत्तिरभूत्। अपरस्य तु तथारुच्यत्वपरिपाकमप्राप्नुवतः तथाविधकर्ममलभावेन जीववीर्योत्कर्षाभावादौदासीन्यमात्रमेव समजनिष्ट, ततस्तयोरध्यवसायभेदाद दर्शनप्रशंसा-तदितरभावकृतं बोधिलाभाऽबोधिलाभफलं कर्मोपनिबन्धमाजगाम अतिक्लिष्टपरिणामा-ऽभावतथाविधमनुष्यगतिप्रायोग्यकर्मबन्धेन मृदुस्वभावतया कथञ्चिदुच्चैर्गोत्रविपाकतः परनिन्दा-परिहारप्रवृत्तयोर्दानादिकृतशुभकर्मणोर्मनुष्यायुनिर्बन्धपूर्वकं श्रेष्ठिकुलयोः कौशाम्ब्यां तथाविध-भोगसम्पत्समन्वितयोर्जन्माऽभूत् तयोश्च पूर्वजन्माऽभ्याससंस्कारवशात् परस्परानुगतमैत्रीभावयोः, बाल(ल्य)कालादेवारभ्य सहपांशुक्रीडितयोर्निरन्तरसाङ्गत्यमभवत् / तत्र च वर्तमानयोः समानकला-शिल्पग्रहणयोः सहदारदर्शिनोः समाऽऽरम्भपरिग्रहयोरेकत्राऽऽसीनयो जानयोर्विचरतो वा चित्तवृत्तिः समैव स्वयं परिणमते, तथाविधाकारदर्शनाच्च भूयो भावेन लोकैः समचित्तावेताविति नामान्वर्थमकारि, ततस्तयोः प्रीतिपूर्वं भूयांसं कालमवतिष्ठमानयोः कदाचित् भगवांस्त्रिलोकैकदीपः सर्वज्ञः सर्वदर्शी सत्त्वहितरत ईक्ष्वाकुकुलाम्बरशशाङ्को वर्धमानस्वामी कौशाम्ब्यामेव समवसृतः, ततो देवासुरनरेन्द्रकृतमहिमानं सर्वलोकविदितं सर्वसंशयच्छेदिनमवेत्य तद्वन्दनार्थमुपागतौ / तयोश्चैकस्य भगवद्वन्दना-कर्णनासञ्जातविस्मयप्रहर्षातिरेकस्य सम्यग्दर्शनमाविरभूत् / द्वितीयस्यत्वौदासीन्यात्तदेवपरिणामोऽवस्थितो, न वृद्धिमुपजगाम, ततोऽस्य न बोधिलाभो जातः / अतश्चौरोदाहरणादेव प्रतिपत्तव्यमित्यर्थः / कौशाम्ब्यां स वणिग् भूत्वा बुद्धः एकः अपरो न तु यदिदमुक्तं तदप्यैतदर्थानुपात्येव द्रष्टव्यम् / तस्माज्जिनभवनं कारयन् शुभभावोत्पत्तिहेतुत्वादन्येषां बोधिलाभाय भवतीति सुस्थितम् // 8 // अधुना तद्विधिमाह - जिणभवणकारणविही सुद्धा भूमी दलं च कट्ठादी / भितगाणतिसंधाणं सासयवुड्डी य जयणा य // 303 // 7/9 दारगाहा / जिनभवनकारणविधिः-शुद्धा भूमिर्दलं च काष्ठादि भृतकाऽनतिसन्धानं कर्मकरा