________________
शास्त्रतत्त्वविनिर्णयः
यः पुनः स्वमतैशत्वं मृषा वक्तुं समुद्यतः । स तत्प्रामाण्यसिद्ध्यर्थं कथा नो कल्पयेत्कथम् ॥ १७ ॥ तत्प्रामाण्यस्यं सिद्ध्यर्थं तेनैवोक्तं कथान्तरम् । मन्तव्यमिति वाक्यं तु बुद्धिमन्तो न गृह्णते ॥१८॥ तस्मात्तदुक्तवार्ताभिस्तत्प्रामाण्यं यदीयते । शत्वमेव तद्वाक्याल्लाघवान्मन्यतां तदा ॥१९॥ ननु तत्काललिखितात्प्रामाण्यं मन्महे वयम् । तत्काललिखितत्वं च ज्ञायते कालसंख्यया ॥२०॥ उच्यते
अध्यायः १ ]
.
तत्काललिखितारोऽपि यथार्थमलिखन्निति । निश्चयः स्यात्कथमिव ग्रन्थप्रामाण्यमन्तरा ॥२१॥ ननु तत्काललिखिते त्वयाथार्थ्यमसंभवि 1 अर्थं ह्यसन्तं मन्येरञ्जनास्तत्कालिकाः कथम् ॥२२॥ इति चेन्नैवमाभाष्यं भवता कल्प्यते यथा । अन्येषां मतसंचारे युक्तिः सात्रापि कल्प्यताम् ॥२३॥ तथा हि नानास्थानोत्था अपीदानीन्तनीः कथाः । अद्भुतार्थ नुसंबद्धा असतीरपि वस्तुतः ॥२४॥ इदानीमपि दृश्यन्ते स्वीकुर्वन्तो बुधा न किम् । इत्यादिकल्पनाभिस्तदन्याभिरपि सेत्स्यति ॥२५॥
अङ्गीकृत्यापि यत्क्लेशं कृतोऽस्यान्यैः परिग्रहः । तदप्यैशत्वगमकमिति यद्भवतेर्यते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
॥२६॥ www.umaragyanbhandar.com