SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अध्यायः ६ उ.] शास्त्रतत्त्वविनिर्णयः ८३ ननु चेन्मायया देवः सृजत्येतच्चराचरम् । अन्यसाहाय्यतस्तस्माद्धीयेत महिमा विभोः ।। १५४ ।। मैवम्विष्णोरेव हि सा शक्तिर्यासौ मायेति भाप्यते । हीयते नैव माहात्म्यं स्वकार्यं कुर्वतस्तया ॥१५५ ।। अन्यथा परमेशोऽयं रक्षत्यन्नादिना प्रजाः । इति प्रवदतां शास्त्रं दुष्येत भवतां न किम् ॥१५६ ।। आत्मीयेन प्रभावेन न किं शक्नोति रक्षितुम् । यदन्नाथै रक्षतीति स्याच्छङ्का भवतामपि ॥१५७॥ एवं तत्त्वस्य सूक्ष्मत्वाज्जायन्ते बहुसंशयाः । समाधानं तु सर्वेषां शास्त्रग्रन्थेषु पश्यत ॥१५८ ॥ इदमत्यन्तममलं खलु वेदान्तदर्शनम् । खबुद्धिकल्पितैर्दोषैर्न त्यक्तुं युज्यते क्वचित् ॥१५९ ॥ गम्भीरः शास्त्रविषयो न ग्राह्योऽल्पमनीषया । न च दूषयितुं योग्यः स्वबुडिकृतनिश्चयैः ॥१६० ॥ प्रसिद्ध सहसा बुद्धेः सूक्ष्मार्थानवबोधनम् । तया ज्ञायेत चेत्तत्त्वं गाम्भीर्य नाम किं ततः ॥१६॥ आस्माकीनधियः शास्त्रतत्त्वस्य च परस्परम् । वैजात्यं परमं तस्माद्यज्यते संशयोद्भवः ॥१६२॥ गूढमेवैश्वरं तत्त्वं सहसा चेन्न बुध्यते । वेदान्तस्यात्र को दोषः किमन्धैर्दूष्यते रविः॥१६३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy