SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ८० शास्त्रतत्त्वविनिर्णयः [ अध्यायः ६ उ. 1 ॥१२७॥ दुष्टोत्पादकता सत्या विभौ क्लृप्ता भवन्मते । अस्माकं दुष्टता मिथ्या तस्मादस्मन्मतं वरम् ॥१२६॥ जीवत्वं जीवदोषाश्च भ्रान्तदृष्टयैव केवलम् । ब्रह्मदृष्ट्या न सन्त्येव तद्दोषैर्नव लिप्यते विरुद्धश्चिन्मयो ह्यात्मा देहादिजडसंघतः । तयोः परस्पराध्यासे मिध्यात्वमुचितं भ्रमे ॥१२८॥ भ्रमजन्यस्य बन्धस्य मिथ्यात्वमपि निश्चितम् । यथा स्वप्ने कृतं चौर्यं तद्दण्डाद्यपि वै मृषा ॥ १२९ ॥ यत्पापाचरणं स्वप्ने दुःखभोगश्च पुष्कलः । जाग्रदृष्ट्या विलासोऽसौ स्वप्नगस्तु प्रबाध्यते ॥ १३० ॥ जाग्रत्स्वप्न गयोर्भेदो वस्तुतो न तथापि तु । विलासमात्रं तद्दृष्ट्या तद्दोषैर्न तु लिप्यते ॥१३१॥ ईशदृष्ट्या प्रपञ्चोऽयं विलासायैव केवलम् । न दोषैलिप्यतेऽत्रत्यैः सोऽस्य साक्ष्येव संस्मृतः ॥ १३२॥ स्वैकांशकल्पितं विश्वं पश्यन्साक्षितया स्थितः । न स्वस्वरूपाच्च्यवते ह्यनन्तमहिमा विभुः ॥ १३३ ॥ पादोऽस्य सर्वभूतानि पादत्रयमथामृतम् अस्यैकांशो जीववर्ग इति शास्त्रेषु गीयते ॥ १३४॥ निरंशे वस्तुतो ब्रह्मण्यौपाधिक्यंशकल्पना । 1 निरंशेऽपि यथा व्योम्नि घटाकाशादिकल्पना ॥ १३५ ॥ www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy