________________
७४
शास्त्रतत्त्वविनिर्णयः [ अध्यायः ६ उ. निरंशे वस्तुतो ब्रह्मण्योपाधिक्यंशकल्पना । निरंशेऽपि यथा व्योम्नि घटाकाशादिकल्पना॥ ६८ ॥ कवीनामपि वै प्राचामतयों महिमा हरेः । क उत्कर्षो भवेत्तस्य यद्यस्मबुद्धिगोचरः ॥ ६९ ॥ ईशदृष्टया विलासोऽसौ यजीवैरिह भुज्यते । जाग्रदृष्टया विलासो हि भुज्यते स्वप्नगेन यत् ॥ ७० ॥ अखिलै वगैर्धर्मर्नेश्वरोऽण्वपि लिप्यते । तस्य दृष्टया मृषा ते हि नित्यबुद्धस्वभाविनः॥ ७१ ॥ नित्यबुद्धस्वरूपस्य दृष्टया भगवतस्त्विमे । मृषैव जीवगा दोषाः स वैसाक्षितया स्थितः॥ ७२ ॥ जीवदृष्टया त्विमे सत्या यथा स्वप्नगतः पुमान्। क्लिश्यति स्वप्नगैर्दुःखैर्यतते च निवारणे ॥७३ ॥ यतितव्यं ततोऽवश्यमात्मबन्धविमुक्तये । मिथ्याभिमानजं दुःखं विवेकात्सुखमश्नुते ॥७४ ॥ एतेन प्राणिनां बन्धः कल्पितो यद्यवास्तवः । किमर्था तर्हि तन्मुक्तिरित्युक्तिरपि खण्डिता ॥ ७५ ॥ स्वप्नानुभूतदुःखानामसतामपि वस्तुतः । बोधान्निवृत्तिःसंजाता किं सुखाय न कल्प्यते ॥ ७६ ॥ पाप्मना लभते दुःखं पुण्येन लभते सुखम् । विवेकपूर्वकाज्ज्ञानात् सर्वबन्धात्प्रमुच्यते ॥७७ ॥ १ 'कल्पते'-अ आ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com