SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ ["-"] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) विजयतेतरां श्रीमद्गुणपतिद्वादशाङ्गात्मा. विदितपूर्वमेतद्विपश्चितां यदुतागमवाचनाप्रकाशकारिण्या यथार्याभिधानया आगमोदयसमित्या श्रीमजिनवरेन्द्रवदनविनिर्गतत्रिपदीहिमवजातप्रभवः कोष्ठबुद्धिकत्वायनन्यसाधारणगुणगणभृद्भिर्गणभृद्भिः रचित आगमनिचय ऐदंयुगीन श्रमणस्योपकृतये वाचनायां सौकर्याय च मुद्रापितः, मुद्रापिते च तस्मिन् उत्तमोत्तममुद्रणालय सत्कोत्तमोत्तमाक्षरैर्जातमस्त्येव समेषां पाठकाध्येतृविलोककानां शर्मानूनं, परं येषामन्यग्रन्थावलोकनेऽनेकत्र दुर्बोधा विषया अवभासेरंस्तेषां यथार्थतया तद्विषयमूलस्थान जिज्ञासापूरणाय सूत्राकारादिक्रमयुतो विषयानुक्रमोऽयमुपदीक्रियमाणो विदुषां करिष्यत्युपकारमसमं, विषयानुक्रमो लघुस्तावद् अध्ययनानामनुक्रमेण महांस्तु विषयदर्शनपुरस्सरं वादादिस्थान विशेषसूचनयाऽलंकृतः, क्षन्तव्योऽपराधोऽत्र यत् मुद्रणसौकर्यांय सर्वेषामागमानां स्वानि सूत्राणि स्वा गाथा चैकीकृताः, प्रतिवाक्प्रयं निर्युक्तिगाथा भाष्यगाथा अपि च संमील्य विवक्षिताः, अन्यथा प्रतिस्थानं श्रुतस्कन्धाध्ययनोद्देशसूत्रगाथानां पृथक् पृथगंकन्यासेन निर्युक्तिमूलभाष्यभाष्यध्यानशतकसंग्रहणीगाथादीनां पृथक्पृथगक्षरोपन्यासेन च गौरवं स्यात्, या च क्षतिर्मुद्रणे जाताऽङ्कानां विहारादिना कारणेन तस्याः मार्जनाय चात्राङ्कशुद्धिरादाववधृता लघ्वी महती च सा विलोकनीयाऽवश्यं, प्रारंभे दृष्टिगोचरीकार्यश्च संकेतसूचकोऽधिकारश्च सहैव तेन मुद्रापितो मतिमद्भिः, परशास्त्रगतसूत्रसूत्रगाथानिर्युक्तिमाप्यादिस्थान जिज्ञासायां अकारादिक्रमावलोककानां चोपकरिष्यति | स्पष्टं विशिष्टशङ्खशुद्धिपत्रिकाऽकारादिक्रमस्य पुरतो मध्ये घृतेत्यर्थयन्ते आनन्दसागराः १९८४ पौषकृष्ण १३ शुक्रवासरे इडरदुर्गे. शान्ति कृतः शान्तिजिनस्य मूर्त्या, दुर्गस्थ चैत्यालयमाश्रयन्त्या । अधिष्ठिते हीडरधानि एषा, प्रस्तावनाऽकारि जनावबुद्धयै ॥ १ ॥ ... पूज्यपाद आनन्दसागरसूरीश्वरेण लिखितं प्रास्ताविक -कथनं ~315~
SR No.035074
Book TitleAagam Sambandhi Saahitya 04 Aagam Sootr Laghu Bruhat Vishayanukram
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages439
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_index
File Size87 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy