SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम [-] [भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ४ अध्ययनं [१], निर्युक्तिः [८५० ], वि० भा०गाथा [-] भाष्यं [ १५०...], मूलं [- /गाथा - ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः धिकवर्षाष्टकोना पूर्वकोटीतियावत्, जघन्यतस्त्वाद्यसामायिकत्रयस्य स्थितिरन्तर्मुहूर्त्त, सर्वविरतिसामायिकस्य एकः समयः, चारित्रपरिणामारम्भसमयानन्तरमेव कस्याप्यायुष्कक्षयसम्भवात्, देशविरतिप्रतिपत्तिपरिणामस्त्वान्तमहर्तिक एव, द्विविधत्रिविधादिभङ्गबहुल प्राणातिपातादिनिवृत्तिरूपत्वात्, ( सर्वविरतिश्रवणपूर्वकं आसक्त्यशक्तिमानेन ग्रहणपरिणामात् ग्रहणाच्च तस्याः) सर्व जीवापेक्षया तु सर्वाणि सर्वदा ॥ द्वारम् ॥ सम्प्रति कतीति द्वारं, कति-कियन्तो नाम वर्त्तमानसमये सम्यक्त्वादिसामायिकानां प्रतिपत्तारः प्राक् प्रतिपन्नाः प्रतिपतिता वा ?, तत्र प्रतिपद्यमानकेभ्यः प्राक्प्रतिपन्नाः प्रतिपतिताश्च सम्भवन्तीति तानेव प्रतिपादयन्नाह सम्मत्त देसविर पलिअस्स असंखभागमिताओ। सेढीअसंखभागो सुए सहस्सग्गसो विरई ॥ ८५० ॥ सम्यक्त्व देश विरताः प्राणिनः सम्यक्त्वं देशविरतिं च प्रतिपद्यमानाः प्राणिनः पत्यस्य क्षेत्रपल्योपमस्य असंख्यभागमात्राः, इयं भावना - क्षेत्रपल्योपमस्य असङ्ख्येये भागे यावन्तः प्रदेशास्तावन्त एकस्मिन् विवक्षिते समये उत्कर्षतः सम्यक्त्वसामायिकं देशबिरतिसामायिकं च प्रतिपद्यमानाः प्रत्येकं लभ्यन्ते, किन्तु देशविरतिसामायिकप्रतिपत्तृभ्यः सम्यक्त्वप्रतिपत्तारोऽसङ्ख्येयगुणाः प्रतिपत्तव्याः, जघन्यतस्तूभयेऽपि एको द्वौ वेति, 'सेडीअसङ्ख भागो सुप' इति इह संवर्त्ति तचतुरस्रीकृतस्य लोकस्य सप्तरज्जुप्रमाणा एकैकप्रदेशा पङ्क्तिः श्रेणिः, तस्या असङ्ख्येयभागः श्रुते-सामान्य श्रुतेऽक्षरात्मके प्रतिपत्तारो, लभ्यन्त इति शेषः, किमुक्तं भवति ! - यथोक्तरूपायाः श्रेणेः खल्वसङ्ख्येयतमे भागे यावन्तो नभःप्रदेशास्तावन्त एकस्मिन् विवक्षिते समये उत्कर्षतः सामान्यश्रुतेऽक्षरात्मके सम्यक्त्वमिथ्यात्वानुगते प्रतिपद्यमाना भवन्तीति, For Frite & Personal Use Only ~67~ selbrary.org
SR No.035066
Book TitleSavruttik Aagam Sootraani 2 06 Aavashyak Niryukti evam Vrutti Aagam 40 Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy