________________
आगम
(४०)
प्रत
सूत्रांक
[..]
गाथा
||||
दीप
अनुक्रम
[3]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+वृत्ति:) ४
अध्ययनं [२], निर्युक्तिः [१०६९ ], वि० भा० गाथा [-], भाष्यं [२००-२०२ ], मूलं [१...] / गाथा [१] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
नीहि क्षेत्रलोकं क्षेत्रमेव लोकः क्षेत्रलोकः तं ऊर्ध्वादिविभागस्तु प्रतीतः, अनन्तं - अंतरहितमलोकाकाशस्यापरिमितत्वात्, अत्र सूत्रेऽनुस्वारलोपः प्राकृतत्वादवसेयः, जिनदेशितं सर्वज्ञकथितं सम्यक् शोभनेन विधिना ॥ साम्प्रतं काललोकप्रतिपादनार्थमाह-
समयावलिअमुहुत्ता दिवसमहोरन्त पक्ख मासा य ।
संबच्छर जुग पलिआ सागर ओसप्पि परियद्वा ॥ २०० ॥ (भा.)
परमनिकृष्टः कालः समयः, असङ्ख्थेयसमयात्मिका आवलिका, द्विघटिको मुहूर्त्तः, द्वादशादिमुहूर्त्ता दिवसः, त्रिंशन्मुहसोऽहोरात्रः, पञ्चदश अहोरात्राणि पक्षः, द्वौ पक्षी मासः, द्वादश मासा संवत्सरः, पञ्चसंवत्सरं युगं, पल्योपमं उद्धारादिभेदात् त्रिविधं, पल्योपमानां दशकोटीकोव्यः सागरोपमं, दशसागरोपमकोटीकोटीपरिमाणा उत्सर्पिणी, एवमवसर्पिण्यपि द्रष्टव्या, परावर्त्तः पुद्गलपरावर्त्तः, स चानन्तोत्सपिण्य वसर्पिणीप्रमाणः, ते अनन्ता अतीतः कालः, अनन्ता एवानागतः कालः ॥ उक्तः काललोकः, काल एव लोकः काललोकः ॥ अधुना भवलोकमभिधित्सुराह
| नेरयदेवमणुआ तिरिक्खजोणी गया य जे सत्ता । तम्मि भवे बहुंता भवलोगं तं विआणाहि ॥ २०१ ॥ (भा.) नैकदेवमनुष्यास्तिर्यग्योनिगताश्च ये सवाः प्राणिनस्तस्मिन् भवे वर्त्तमाना यदनुभावमनुभवन्ति तं भवलोकं जानीहि भव एव लोको भवलोक इति व्युत्पत्तेः ॥ साम्प्रतं भाव ठोकमुपदर्शयति
ओदइए उवसमिए खइए अ तहा खओवसमिए अ । परिणामि सन्निवाए छविहो भावलोगो य ॥ २०२॥ (भा.)
... अत्र 'समय' आदि काल गणित वर्णयते
For Private & Personal Use Only
~313~