SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-6] "आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४ अध्ययनं [२], नियुक्ति: [१०६९], वि०भा०गाथा [२८०९-२८१०], भाष्यं [१९७], मूलं [१...] / गाथा [१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक गाथा ||१|| अयं चेह तावत् पश्चास्तिकायात्मको गृह्यते, तस्य लोकस्य उद्योतकरणशीला उद्योतकरास्तान , केवलालोकेन तत्पूर्वकवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः, उक्तं च-"दुर्गतिप्रस-1 तान् जन्तून् , यस्माद् धारयते ततः । धत्ते चैतान शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥१॥" तीयते संसारसागरोऽनेनेति।x तीर्थ, धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थ तत्करणशीला धर्मतीर्थकरास्तान , तथा रागद्वेषकषायेन्द्रियपरीपहोपसर्गाष्टप्रकारकर्मजेतृत्वाजिनास्तान् , अशोकाद्यष्टमहापातिहार्यादिरूपां पूजामहतीत्यर्हन्तस्तान् अर्हतः, कीर्तयिष्यामि-10 स्वनामभिः स्तोष्ये, चतुर्विंशतिः सङ्ख्या, अपिशब्दो भावतस्तदन्यसमुच्चयार्थः, केवलं ज्ञानमेषां विद्यत इति केवलिनः तान् केवलिनः, इति पदार्थः, पदविग्रहोऽपि यानि समासभाञ्जि पदानि तेषु दर्शित एव । सम्प्रति चालनावसरः-तत्र सारे तावत् तिष्ठतु , सूत्रस्पर्शनियुक्तिरेवोच्यते, स्वस्थानत्वात् , उक्तं च-"अक्खलियसंहियाई वक्खाणचउक्कए दरिसियंमि । दासत्तप्फासियनिजुत्तिवित्थरत्थो इमो होइ ॥१॥" चालनामपि चात्रय वक्ष्यामः, तत्र 'लोकस्योद्योतकरा'निति यदुक्तं तत्र लोकनिरूपणायाह8 नामंठवणादविए खित्ते काले भवे य भावे य । पजवलोगे य तहा अट्टविहो लोगनिक्खेवो ॥१०६९॥ द नामलोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोकः भावलोकः पर्यायलोकश्च, एवमष्टविधो लोकनिक्षेप VIइति गाथासमासार्थः, व्यासाधन्तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने क्षुण्णस्यादनाहत्य द्रव्यलोकमभिधित्सुराह1 जीवमजीवे रूवमरूवी सपएसमप्पएसे य । जाणाहि दवलोगं निचमनिचं च जं दवं ॥१९७ ॥ (भा.) CRECASCALCREACHECK दीप अनुक्रम [३] ( G lonal For F lutelu ... अत्र 'लोक' शब्दस्य 'नाम' आदि निक्षेपा: वर्णयते ~311
SR No.035066
Book TitleSavruttik Aagam Sootraani 2 06 Aavashyak Niryukti evam Vrutti Aagam 40 Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy