________________
आगम
(४०)
प्रत सूत्रांक
[3]
दीप
अनुक्रम
[२]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ४
अध्ययनं [२], निर्युक्तिः [ १०६८ ], वि०भा० गाथा [-], भाष्यं [१९६], मूलं [१] / गाथा [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृि
नेच्छन्ति न बहु मन्यन्ते यच्चोक्तं- 'द्रव्यस्तवे क्रियमाणे वित्तपरित्यागात् शुभ एवाध्यवसाय' इत्यादि, तदपि यत्कि - चित्, व्यभिचारात् कस्यचिदल्पसत्त्वस्य अविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते यशः कीर्त्याद्यर्थमपि सवानां द्रव्यस्तवे प्रवृत्तिः, शुभाध्यवसायभावे तु स एव भावस्तवः, इतरस्तु तत्कारणत्वेनाप्रधानमिति तथा भावस्तव एव सति तत्त्वतस्तीर्थ स्योन्नतिकरणं, भावस्तववतः सम्यगमरादिभिरपि पूज्यत्वात्, तमेव च दृष्ट्वा क्रियमाणमन्ये सुतरां प्रतिबुज्यंते इति स्वपरानुग्रहोऽपीहैवेति गाथाद्वयभावार्थः । आह यद्येवं किमयं द्रव्यस्तव एकान्ततो हेय एव वर्त्तते ?, आहोश्विदुपादेयोऽपीति ?, उच्यते, साधूनां हेय एव, श्रावकाणामुपादेयोऽपि, तथा चाहअकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणो दवथओ क्रूवदितो ॥ १९६ ॥ (भा.)
अकृत्स्नं, संयममिति सामर्थ्यात् गम्यते, प्रवर्त्तयन्तीत्यकृत्स्न प्रवर्चकास्तेषां विरताविरतानां श्रावकाणामेष-द्रव्यस्तवः खलु युक्त एव खलुशब्दस्यावधारणार्थत्वात्, किंकृदयमित्याह - संसारप्रतनुकरणः, संसारक्षयकारक इति भावः, आह-यः प्रकृत्यैवासुन्दरः स कथं श्रावकाणामपि युक्तः १, उच्यते, अत्र कूपदृष्टान्तः, जहा नवनगराइसंनिवेसे केई पभूतजलाभावतो तण्हादिपरिगया तदपनोदार्थं कूपं खणंति, तेसिं च जइवि तन्हाइया वहुंति मट्टियाकद्दमादीहि य मलिणिजंति तहावि तदुब्भवेणं चेव पाणीएणं तेसिं ते तिन्हाइया सो य मलो पुषगो य फिट्टर, सेसकालं च ते तदन्ने य लोगा सुहभागिणो य भवन्ति, एवं दवत्थए जइवि असंजमो तहावि ततो चेव सा परिणामबुडी भवति जा असंजमोवज्जियं अन्नं निरवसेसं खवेंति, तम्हा विरताविरतेहिं एस दधत्थओ कायचो, सुभाणुबंधी पभूयतरनिअराफलो यत्ति, उक्तः स्तवः ।
For Private & Personal Use Only
~309~
selbrary.org