________________
आगम
(४०)
[भाग-6] "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४ अध्ययनं [२], नियुक्ति: [१०६८], विभा गाथा H, भाष्यं [१९३], मूलं [१] / गाथा [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक [१]
दीप अनुक्रम
कापोपणादीनि, मिश्राणि द्विपदादीन्येव कटकाधलङ्कतानि, क्षेत्रचतुर्विंशतिर्विवक्षया चतुर्विंशतिः क्षेत्राणि भरतादीनि, क्षेत्रप्रदेशा वा चतुर्विंशतिः क्षेत्रचतुर्विंशतिः, चतुर्विंशतिप्रदेशावगाई वा द्रव्यं क्षेत्रचतुर्विंशतिः, कालश्चतुर्विशतिश्चतुर्विंशतिः समयादयः, एतत्कालस्थिति वा द्रव्यं कालचतुर्विंशतिः, भावचतुर्विंशतिः चतुर्विंशतिर्भावसंयोगाः, चतुर्विशतिगुणकृष्णादिद्रव्यं वा भावचतुर्विशतिः, इह सचित्तद्विपदमनुष्यचतुर्विशत्याऽधिकार इति गाथार्थः ।। उक्ता चतुर्विंशतिः, अधुना स्तवनिक्षेपप्रतिपादनार्थमाहनामंठवणादविए भावे य थयस्स होइ निक्खेवो । दबत्थओं पुफाई संतगुणकित्तणा भावे ॥१९३ ।। (भा.)
'नाम' ति नामस्तवः स्थापनास्तवः द्रव्यविषयो द्रव्यस्तवः "भावे येति भावविषयो भावस्तवः, इत्थं स्तवस्य निक्षेपोन्यासो भवति चतुष्प्रकार इति शेषः, तत्र क्षुण्णत्वान्नामस्थापने अनाहत्य द्रव्यस्तवभावस्तवस्वरूपमाह-द्रव्यस्तवः पुष्पादिः, आदिशब्दात् गन्धधुपादिपरिग्रहः, कारणे कार्योपचाराचैवमाह, अन्यथा द्रव्यस्तवः पुष्पादिभिः समभ्यर्चन-13 मिति द्रष्टव्यं, तथा सद्गुणोत्कीर्तना भाव इति, सन्तश्च ते गुणाश्च सद्गुणाः, अनेनासत्सु गुणेषत्कीर्तनानिषेधमाहा। करणे मृषावाददोषप्रसङ्गात् , सद्गुणानामुत्कीर्तना उत्-प्राबल्येन परया भक्त्या कीर्तना-संशब्दना यथा-'प्रकाशित यथैकेन, त्वया सम्यक् जगत्रयम् । समग्रैरपि नो नाथ!, परतीर्थाधिपैस्तथा ॥१॥ विद्योतयति वा लोकं, यथैकोऽपि निशाकरः । समुद्गतः समग्रोऽपि, किं तथा तारकागणः॥२॥" इत्यादिलक्षणो भावे इति द्वारपरामों, भावस्तव | इत्यर्थः ॥ इह चालितप्रतिष्ठितोऽर्थः सम्यग्ज्ञानाय प्रभवतीति चालनां कदाचिद् विनेयः करोति, कदाचित्स्वयमेव गुरु
CTERSARKARUARCSCREE
RECECASSESAKASCALES
[२]
Fur FB Fanatec
K
aneibraryara
~307~