________________
आगम
(४०)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[२]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्ति:+वृत्तिः) ४
अध्ययनं [१], निर्युक्तिः [१०२८-१०२९] वि० भा० गाथा [-], भाष्यं [ १६७], मूलं [१] / गाथा [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीआव० मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥५६२ ॥
छाने वा त्रयस्त्रिंशत्सागरोपमाण्यनुभूय पुनरपि समयद्वयं विग्रहेण गमयित्वा तृतीयसमये औदारिकस्य शरीरस्य सङ्घातमादाय तदनन्तरमुभयमारभते तत्र तावद् द्वौ विग्रहसमयावेकश्च सङ्घातसमयो देवादिभवसम्बधीनि त्रयस्त्रिंशत् सागरोप माणीति यथोकप्रमाणमुत्कृष्टमुभयान्तरमिति, उक्तं च-" उभयंतरं जहन्नं समओ निविग्गहेण संघाते । परमं सतिसमयाई तेत्तीसं उयहिनामाई ॥ १ ॥ अणुभविडं देवादिसु तेत्तीसमिहागयस्स तइयंमि । समए संघातयतो नेयाई समयकुसलेहिं ॥ २ ॥ उक्ता औदारिकमधिकृत्य सर्वसङ्घातादिवतव्यता, साम्प्रतं वैक्रियमधिकृत्योच्यते, तत्रेयं गाथा - वेडवियसंघाओ जहन समओ उ दुसमयुक्कोसो। साडो पुण समयं चिअ विजवणाए विणिहिडो ॥ १६७॥ (भा.)
वैक्रियस्य संघातः- सर्वसङ्घातकालो 'जघन्य' सर्वस्तोक एकसमय एव, तुशब्दस्यैवेकारार्थत्वेनावधार्यमाणत्वात्, अयं चौदारिकशरीरिणां वैकियलब्धिमतां विकुर्वणारम्भे देवनारकाणां च तत्प्रथमतया शरीरग्रहणेऽवसातव्यः उक्तं च"वेउडियसंघातो, समओ सो पुण विउवणादीए । ओरालियाणमहवा, देवाईणादिग्रहणंमि ॥ १ ॥” तथा द्विसमयोद्विसमयमान उत्कृष्टो, वैक्रियसङ्घात इति वर्त्तते, काळतश्चेति गम्यते, स पुनर्यदा औदारिकशरीरी वैनियलब्धिमान् विकुर्वणारम्भसमय एव वैक्रियसङ्घातं समयेन कृत्वा स्वायुःक्षयात् मृतो द्वितीयसमये विग्रहाभावेन ऋजुश्रेण्या सुरेपूरपद्यमानः वैक्रियं सङ्घातयति तदाऽवसातव्यः, आह च "उकोसा समयदुगं जो समयविडविडं मओ बिइए। समये सुरेसु वचइ निविगहतो तयं तस्स ॥ १ ॥” शाटः पुनर्जघन्यत उत्कर्षतश्च समयमेव कालतो 'विकुर्वणायां' वैक्रियशरीरविषयो निर्दिष्टस्तीर्थकरगणधरैः ॥ अधुना सङ्घातपरिक्षाका लमानमभिधित्सुराह
For Frate & Personal Use Only
~ 252~
संघातादिकरणानि
।। ५६२ ॥