________________
आगम
(४०)
[भाग-6] "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४ अध्ययनं [१], नियुक्ति: [१०२८-१०२९], विभागाथा H, भाष्यं [१६५], मूलं [१] | गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक [१]
दीप अनुक्रम
दासङ्घातपरिशाटोभयकालः, ततस्तेन सङ्घातनासमयेन ऊनं पल्योपमत्रयमिति, ननु यथा सङ्घातसमयेनोनं पस्योपमत्रयं मतं 8
तथा परिशाटसमयेनापि, ततो द्विसमयहीनं पल्योपमत्रयं प्राप्नोति, तदयुक्तं, वस्तुतत्त्वापरिझानात्, निश्चयतो हिद भवस्य चरमेऽपि समये सङ्घातपरिशाटावेव, परिशाटस्तु परभवप्रथमसमयेन, अत एकेन समयेनोनसा, न द्वाभ्यामिति, उक्तं च-"उकोसो समऊणो जो सो संघयणासमयहीणो। किह न दुसमयविहीणो साडणसमएऽवणीयंमि? ॥१॥ भण्णइ भवचरमंमिवि समए संघायसाडणा चेव । परभवसमए साडणमतो तदूणो न कालोत्ति ॥ २॥" एवमौदारिके जघन्येतरभेदः सङ्घातपरिशाटकाल उक्तः, सङ्घातपरिशाटयोस्त्वेक एव समयः, द्वितीयस्थासम्भवात् , अधुना सङ्घातावि-12 बिरहो जघन्येतरभेदोऽभिधीयते, तथा चाहतिसमयहीणं खुर्द होइ भवं सबबंध-साडाणं । उक्कोस पुत्रकोडी समयो उवही अतित्तीसं ॥१६५ ॥ (भा.) | त्रिसमयहीनं क्षुलं, 'भवं' ति संपूर्ण क्षुल्लकभवग्रहणं, यथाक्रमं सर्वबन्धशाटयोरन्तरकालः, किमुकं भवति?-सर्वसङ्घासातकरणस्य जघन्योऽन्तरकालस्त्रिसमयहीनक्षलकभवग्रहणं, सम्पूर्ण तु क्षुल्लकभवग्रहणं परिशाटस्येति, कथं सर्वसवातस्य जघ-18
न्यान्तरकालस्त्रिसमयहीनं क्षुल्लकभवग्रहणं ?, उच्यते, यदा कश्चिदेकेन्द्रियादिर्जीवो मृतः सन् समयद्वयं विग्रहे कृत्वा क्षुल्लूकभवग्रहणायुष्केषु पृथिव्यादिपूत्पन्नः तृतीयसमये औदारिकस्य सङ्घातं कृतवान् तदा औदारिकशरीरमधिकृत्य सङ्घातस्य त्रिसमयन्यूनक्षुल्लकभवग्रहणप्रमाणो जघन्योऽन्तरकालः, उक्तं च-"संघार्यतरकालो जहन्नओ खुडुगं तिसमऊणं । दो| विग्गहमि समया तइओ संघायणासमओ॥१॥ तेणं खुड्डगभवं धरिलं परभवमविग्गहेणेव । गंतूण पढमसमये संघातयतो
[२]
Fur
& Fonte
W
heibraryana
~249