________________
आगम
(४०)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम [२]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्ति:+वृत्तिः) ४
अध्ययनं [१], निर्युक्तिः [१०२८-१०२९] वि०भा० गाथा [-] भाष्यं [ १६१- १६३], मूलं [१] / गाथा [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
शीर्ष उदरं पृष्ठं द्वौ बाहू द्वौ च ऊरू इत्यष्टावङ्गानि अङ्गुल्यादीनि उपाङ्गानि शेषाणि करपादादीनि अङ्गोपाङ्गानि ।। किच
केसाईउबरयणं उरालविउधि उत्तरं करणं । ओरालिए विसेसो कण्णाइणसंटवणं ॥ १६९ ॥ (भा.) केशाद्युपरचनं - केशादिनिर्मापणसंस्कारो आदिशब्दान्नखदन्तरागादिपरिग्रहः, औदारिकवैक्रिययोरुत्तर करणं, यथासम्भवं चेह योजना कार्या, तथा औदारिके उत्तरकरणे विशेषः, कर्णादिविनष्टसंस्थापनं न चेदमुत्तरकरणं वैक्रियादौ सम्भवति, विनाशाभावात्, विनष्टस्य च सर्वधा विनाशेन संस्थापनाऽभावात् केशायुपरचनरूपं तूत्तरकरणमाहारके न सम्भवति, प्रयोजनाभावात्, ततो गमनागमनादिरूपं तत्तत्राव सातव्यम्, अथवेदमन्याहरू त्रिविधं करणम्, तद्यथा सङ्घातकरणं परिशाटकरणं सङ्घातपरिशाटकरणं च तत्राद्यानां त्रयाणां शरीराणां तेजसकार्म्मणरहितानां त्रिविधमप्यस्ति, द्वयोस्तु चरमद्वयमेव ॥ तथा चाह-
आइलाणं तिहं संघाओ साडणं तदुभयं च । तेआकम्मे संघायसाडणं साड़णा वाऽवि ॥ १६२ ॥ (भा.) आद्यानां त्रयाणाम् - औदारिकवैक्रियाहारकरूपाणां शरीराणां सङ्घातः शाटनं तदुभयं च सङ्घातपरिशादौ, तेजसकार्मणे सङ्घातपरिशाटो शाटनं वापि न तु सङ्घातोऽनादित्वात् ॥ साम्प्रतमौदारिकमधिकृत्य सङ्घातादिकालमानमभिधित्सुराह - संघायमेगसमयं तव परिसाडणं उरालम्मि । संघायणपरिसाडो खुड्डागभवं तिसमऊणं ॥ १६३ ॥ (भा.) सङ्घातमिति सर्वसङ्घातकरणमेकसमयं भवति, एकान्तादानस्य एकसामयिकत्वात्, अत्र घृतपूपो दृष्टान्तः, यथा घृतपूर्ण
For Private & Personal Use Only
~ 247~