SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [3] [भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ४ अध्ययनं [१], निर्युक्तिः [ १०२० ], वि० भा० गाथा [-], भाष्यं [ १५१...], मूलं [- / गाथा-], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः श्रीआव श्यकमल यगिरीय वृत्ती नम स्कारे ॥ ५५२ ॥ दुविह' इति, यद्ययं सङ्क्षेपः स्यात् ततस्तस्मिन् सति द्विविध एव नमस्कारो भवेत्, सिद्धसाधुभ्यामिति, परिनिवृत्तार्हदादीनां सिद्धशब्देन ग्रहणात् संसारिणां च साधुशब्देन तथा च न ते संसारिणः सर्व एव साधुत्वमतिलङ्घ्य वर्त्तन्ते, तदभावे शेषगुणानामसम्भवादिति, अथायं विस्तरस्तदप्यचारु, यतो विस्तरतोऽनेकविधः प्राप्नोति, तथा च ऋषभाजितसम्भवामिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभेत्यादिमहावीरवर्द्धमानस्वामिपर्यन्तेभ्यः चतुर्विंशतयेऽऽर्हद्भयः, तथा सिद्धेभ्यो विस्तरेणानन्तरसिद्धेभ्यः परस्परसिद्धेभ्यः, अनन्तरसिद्धेभ्योऽपि तीर्थकर सिद्धेभ्योऽतीर्थकरसिद्धेभ्य इत्यादि, परम्परसिद्धेभ्योऽपि प्रथमसमयसिद्धेभ्यो द्वितीयसमयसिद्धेभ्यो यावदनन्तसमयसिद्धेभ्यः, तथा तीर्थलिंगचारित्रप्रत्येकबुद्धादिविशेषणविशिष्टेभ्यः तीर्थकर सिद्धेभ्यः अतीर्थकरसिद्धेभ्यः तीर्थसिद्धेभ्य इत्येवमनन्तशो विस्तरतः, यतश्चैवमतः पक्षद्वयमप्यङ्गीकृत्य पञ्चविधः-पञ्चप्रकारो न युज्यते नमस्कार इति, गतमाक्षेपद्वारम् । अधुना प्रसिद्धिद्वारमुच्यते, तत्र यत्तावदुक्तं 'न सङ्क्षेपत' इति तदयुक्तं, सङ्क्षेपात्मकत्वात् ननु स कारणवशात् कृतार्थाकृतार्थपरिग्रहेण सिद्धसाधुमात्र एवोक्तः, सत्यमुक्तः, अयुक्तस्त्वसौ, कारणाअन्तरस्यापि भावात्, तथोक्तमेवानन्तरवस्तुद्वारे, अथवा वक्ष्यामः - 'हेउ निमित्त' मित्यादिना, सति च द्वैविध्ये सकलगुणनमस्कारासभवात् एकपक्षस्य व्यभिचारित्वात्, तथा चाह अरिहंताई नियमा साहू साहू य तेसु भइयबा । तम्हा पंचविहो खलु हेउनिमित्तं हव सिद्धो ॥ १०२० ॥ अर्हदादयो नियमात् साधवः, साधुगुणानामपि तत्र सम्भवात्, साधवस्तु तेषु - अर्हदादिषु भक्तव्याः - विकल्पनीयाः, यतस्ते साधवो न सर्वेऽर्हदादयः, किन्तु ?, केचिदर्हन्त एव केचित् केवलिनः केचिदाचार्याः सम्यक्सूत्रार्थविदः केचि - For Private & Personal Use Only ~ 232~ सिद्ध सौख्यं | ।। ५५२ ॥
SR No.035066
Book TitleSavruttik Aagam Sootraani 2 06 Aavashyak Niryukti evam Vrutti Aagam 40 Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy