________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ४
अध्ययनं [१], निर्युक्तिः [ ९६८- ९७० ], वि० भा० गाथा [-], भाष्यं [ १५१...], मूलं [- / गाथा-], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
टार्थ, किंबहुना ?, यो यथा येन प्रकारेणावस्थितः सन् कालं करोति स तथा तेन प्रकारेणोपपद्यते सिद्ध इति ॥ |किमित्येतदेवमत आह
इहभवभिन्नागारो कम्मवसातो भवंतरे होइ । न य तं सिद्धस्स जओ तम्मिवि तो सो तयागारो ॥ ९६८ ॥ इहभवाद् - अधिकृतभवात् भिन्नाकारः इहभवभिन्नाकारो जीवः कर्म्मवशात् कर्म्मवशेन भवान्तरे स्वर्गादौ भवति, तदाकारभेदस्य कर्म्मभेदनिबन्धनत्वात् न च तत्कर्म्म आकारभेदनिबन्धनं यतो- यस्माद् अस्ति ततः तस्मिन् अपवर्गे असी सिद्धस्तदाकार:- पूर्वभवाकारः ॥ तथा किच
जं संठाणं च (तु) इहं भवं चयंतस्स परिमसमयम्मि । आसीअ पएसघणं तं संठाणं तहिं तस्स ॥ ९६९ ॥ यदेव, तुशब्दस्य व्यवहितस्यैव कारार्थत्वात् संस्थानं इह - मनुष्यभवे भवं संसारं मनुष्यभवं वा त्यजतः सतश्चरमसमये आसीत् प्रदेशघनं तदेव संस्थानं तत्र तस्य भवति ॥ तच्च मनुष्यभवशरीरापेक्षया त्रिभागहीनं, त्रिभागेन रन्ध्रपूरणात्, तथा चाह
दीहं वा इस्सं वा जं चरिमभवे हविज संठाणं । ततो तिभागहीणा सिद्धाणोगाहणा भणिआ ॥ ९७० ॥
दीर्घ वा पश्चधनुः शतप्रमाणं, ह्रस्वं वा-हस्तद्वयप्रमाणं, चशब्दान्मध्यमं वा विचित्रं, यच्चरमभवे संस्थानं ततः तस्मात् संस्थानात् त्रिभागहीना सिद्धानां अवगाहना अवगाहन्ते अस्यामित्यवगाहना स्वावस्यैव भणिता तीर्थ करगणधरः, कस्मात्रिभागहीनेति चेत्, उच्यते, इह देहे त्रिभागः शुषिरं, ततो योगनिरोधकाले तथाविधप्रयत्नभावतः शुषिरापूरणतस्त्रि
For Private & Personal Use Only
~215~