SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-6] "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४ अध्ययनं [१], नियुक्ति: [९४८], विभा गाथा H, भाष्यं [१५१...], मूलं [- /गाथा-], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक दीप अनुक्रम [१] कथंचनापि सीवितं यथा सर्वथा न ज्ञायते, यथा स्वामिसत्कं देवदृष्यं धिग्जातीयेन कारितं ८ । वहुइत्ति वर्द्धकिरभ्यासतः कोऽप्यमाप्यापि देवकुलरथादीनां प्रमाणं जानाति ९॥ पूइयत्ति आपूपिकः कणिक्कादिकममाप्यापि पूपपरिमाणं जानाति, यथा एतावत्कणिक्कादेरेतावत्यः पूपा भविष्यन्ति, सर्वा अपि वा समाः करोति १० । 'घडे' त्ति घटकारः प्रथमत एताव प्रमाणां मृत्तिकां गृह्णाति यावन्मात्रया विवक्षितं घटादिकं निष्पद्यते इति ११॥ चित्तकारेत्ति चित्रकारो अमाप्यापि रेखादादिकं प्रमाणयुक्त चित्रं करोति, तावन्मानं वा वर्णकं गृह्णाति यावन्मात्रेण समाप्यते इति २१ । सर्वेषामेतेषां कर्मजादू बुद्धिः । उक्ता कर्मजा बुद्धिः, सम्पति पारिणामिक्या लक्षणं प्रतिपादयन्नाहअणुमाण-हेउ-दिहतसाहिआ वयविवागपरिणामा । हिअनिस्सेयसफलवई बुद्धी परिणामिआ नाम ॥९४८ ॥ | अनुमानहेतुदृष्टान्तः साध्यमर्थ साधयतीति अनुमानहेतुदृष्टान्तसाधिका, इह लिङ्गज्ञानमनुमानं, स्वार्थमित्यर्थः, तत्प्रदातिपादकं वचो हेतुः, परार्थमनुमानमित्यर्थः, अथवा ज्ञापकमनुमानं, कारको हेतुः, दृष्टमर्थमंतं नयतीति दृष्टान्तः, ननु अनुमानग्रहणादेव दृष्टान्तो गत इति किमर्थमस्योपन्यासः?, तदसम्यक, अनुमानस्य तत्त्वत एकलक्षणत्वात् , उक्त च-'अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? । नान्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम् ॥ १॥ इत्यादि साध्योप-10 माभूतस्तु दृष्टान्तः, उक्तं च-"यः साध्यस्योपमाभूतः स दृष्टान्त इति कथ्यते” इति, बयोविपाकपरिणामा इति कालकृतो देहावस्थाविशेषो वयः तद्विपाकेन परिणामः-पुष्टता यस्याः सा वयोविपाकपरिणामा, तथा हितम्-अभ्युदयः तत्का KCCCCCCCC ~181
SR No.035066
Book TitleSavruttik Aagam Sootraani 2 06 Aavashyak Niryukti evam Vrutti Aagam 40 Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy