________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[3]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ४
अध्ययनं [१], निर्युक्तिः [९९८ ], वि० भा० गाथा [-] भाष्यं [ १५१], मूलं [- / गाथा-], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
व, तत्र वाह्या कर्णपटिकादिरूपा, सा च विचित्रा, न प्रतिनियतसंस्थानरूपतया व्यपदेष्टुं शक्या, तथाहि मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतोभाविनी या चोपरितनबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णे चाग्रभागे इत्यादि जातिभेदानानाविधे, अभ्यन्तरा तु निर्वृत्तिः सर्वेषामपि जन्तूनां समाना, तामेव चाधिकृत्यामूनि सूत्राणि प्रावर्त्तत, यतः 'सोइंदिए णं भंते ! किसंठाणसंठिते पत्ते १, गोयमा ! मसूरचंदसंठाणसंठिए पण्णत्ते, घाणिंदिए णं भंते ! किंसंठाणसंठिए पण्णत्ते ?, गोयमा ! अइमुत्तगसंठाणसंठिए पण्णत्ते, जिब्भिदिए णं भंते ! किंसंठाणसंटिए पन्नत्ते ?, गोयमा ! खुरप्पसंठाणसंठिए पण्णत्ते, फासिंदिए णं भंते । किंसंठाणसंठिए पन्नत्ते 2, गोयमा ! नाणासंठाणसंठिए पनते,” इह स्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, पूर्वसूरिभिस्तथाभिधानात्, उपकरणं खड्गस्थानीयाया बाह्याया निर्वृत्तेर्या खड्गधारासमाना स्वच्छतरपु द्गलसमूहात्मिका अभ्यन्तरा निर्वृत्तिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियं नान्तरनिर्वृत्तेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात्, कथञ्चिद्भेदश्च सत्यामपि तस्यामान्तरनिर्वृत्तौ द्रव्यादिनोपकरणस्य विघातसम्भवात् तथाहिसत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरनिर्वृत्तौ अतिकठोरतरघनगर्जितादिना शक्त्युपघाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति भावेन्द्रियमपि द्विधा - लब्धिरुपयोगश्च तत्र लब्धिः श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणक्षयोपशमः, उपयोगः स्वस्वविषये लब्धिरूपेन्द्रियानुसारेणात्मनो व्यापारः, इह यदि उपयोगापेक्षया संसारिजीवानां चिन्ता क्रियते तदैकस्मिन् काल एकेनैवेन्द्रियेण उपयोगो न शेषैरित्युपयोगापेक्षया सर्वोऽपि संसारिजीव एकेन्द्रियः, उक्तं च-"जो सविसयवावारो सो उवयोगो स चेगकालंमि । एगेण चैव तम्हा उवयोगेगिंदिआ सवे ॥ १ ॥” लब्धिरपि प्रायः
For Private & Personal Use Only
~135~