SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [3] [भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ४ अध्ययनं [१], निर्युक्तिः [९१० - ९११], वि० भा०गाथा [-], भाष्यं [१५१...], मूलं [- /गाथा -], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः संसाराटव्यां, किंविशिष्टायामित्याह - मिथ्यात्वाज्ञानमोहितपथायां - मिथ्यात्वाज्ञानाभ्यां मोहितः पन्था यस्यां सा तथा तस्यां यैः कृतं देशकत्वं तानर्हतः प्रणिपतामि नमस्करोमि ॥ तच्च देशकत्वं दृष्ट्वा ज्ञात्वा च सम्यकूपन्थानमासेव्य च कृतं तथा चाह--- सम्महंसणदिट्ठो नाणेण य तेहि सुह उबलद्वो । चरणकरणेहिं पहतो नेवाणपहो जिनिंदेहिं ॥ ९१० ॥ सम्यग्दर्शनेन - अविपरीतेन दर्शनेन दृष्टो, ज्ञानेन च सुहु-यथावस्थितस्तैरर्हद्भिर्ज्ञातः, चरणं च करणं च चरणकरणं, समाहारत्वादेकवचनं, तेन प्रहतः - आसेवितो निर्वाणमाग्गों जिनेन्द्रैः, तत्र चरणं व्रतादि करणं-पिण्डविशुद्ध्यादिः, यथोक्तम्- " वय ५ समणधम्म १० संजम १७ वेयावचं १० च बंभगुत्तीतो ९ । नाणातितियं ३ तव २ कोहनिग्गहाई चरण| मेयं ॥ १ ॥ पिंडविसोही ४ समिती ६ भावण १२ पडिमा १२ य इंदियनिरोहो ५ । पडिलेहण २५ गुत्तीओ ३ अभिग्गहा | ४ चैव करणं तु ॥ २ ॥” न केवलं प्रहत एव, किन्तु ते खल्वनेन पथा निर्वृतिपुरमेव प्राप्ताः ॥ तथा चाह सिद्धगिया नेवाणसुहं च ते अणुप्पत्ता । सासयमवाबाहं पत्ता अयरामरं ठाणं ॥ ९११ ॥ सिद्धिवसतिं - मोक्षालयम् उपगताः- सामीप्येन कर्म्मविगमलक्षणेन प्राप्ताः, अनेन एकेन्द्रियव्यवच्छेदमाह, केषाञ्चित् | सुखदुःखरहिता एव तत्र तिष्ठन्तीति दर्शनं तत्राह - निर्वाणसुखं च ते अनुप्राप्ताः, निरतिशयसुखं प्राप्ता इत्यर्थः, ते च दर्शनपरिभवादिने हागच्छन्तीति केषाञ्चिद्दर्शनं तन्निषेधार्थमाह-शाश्वतं नित्यं अन्याबाधं-व्यावाधारहितं अजरामरं - जरामर णरहितं स्थानं प्राप्ताः ॥ सम्प्रति द्वितीयं द्वारं व्याचिख्यासुराह— ... अरिहंत - नमस्कार करणस्य हेतव: For Private & Personal Use Only 119~
SR No.035066
Book TitleSavruttik Aagam Sootraani 2 06 Aavashyak Niryukti evam Vrutti Aagam 40 Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy