________________
आगम
(४०)
[भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं [-], नियुक्ति: [६१३-६१६], वि०भा०गाथा -1, भाष्यं [१३२...], मूलं -/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
दृश्यप्रापकानि ततः संशया, अभ्यब-यचेऽभिप्रायो यथा कारणानुरूपं कार्य भवति, न खलु शालिचीजात् गोधूमा
कुरप्रसूतिः, ततो भवान्तरसादृश्यमेवोपपत्तिमत्, तत्र वेदपदानामर्थ चशब्दात् युकिं भावार्थ च.न जानासि, तेषां प्र वेदपदानामयमर्थः-पुरुषः खल्विह जन्मनि स्वभावेन माईवाजवादिगुणयुक्तो मनुष्यनामगोत्रकर्मणी बद्धा मृतः सन् पुरु
पत्वमश्नुते, न तु नियमतः, एवं पशवोऽपि पशुभावमायादिगुणयुक्ताः पशुनामगोत्रे कर्मणी बट्टा मृताः सन्तः पशुब्वमासादयन्ति, न तु नियोगतः, जीवानां गतिविशेषस्य कर्मसापेक्षत्वात् , शेषाणि तु वेदपदानि सुगमानि, न च नियमतः कारणानुरूपं कार्य, वैसदृश्यस्यापि दर्शनात्, तथाहि-शृङ्गाच्छरो जायते, तस्मादेव सर्पधानुलिसातु तृणानीति,
गोलोमाविलोमभ्यां दूर्वा, ततो न नियमः, अथवा कारणानुरूपकार्यपक्षेऽपि भवान्तरवैचित्र्यमस्य युक्तमेव, यतो हाभवाङ्करबीजं सात्मकं कर्म, तच्च तिर्यग्नरामरनारकायुष्कादिभेदभिन्नत्वात् चित्रम्, अतः कारणवैचिंत्र्यात् कार्यवे-16 हैचित्र्यमिति, वस्तुस्थित्या तु सौम्य ! किचिदिह लोके परलोके वान सर्वथा समानमसमानं वाऽस्ति, तथा चेह भवे युवा निजैरप्यतीतानागालवृद्धादिपर्यायैः सर्वथा न समानोऽवस्थाभेदग्रहणात्, नापि सर्वथाऽसमानः सचायनुगमात्, एवं परलोकेऽपि मनुजो देवत्वमापनो न सर्वथा समानः, शरीरान्तरादिभावात्, नापि सर्वथाऽसमानो जीवत्वाद्यन्वः यात् , इत्थं चैतदङ्गीकर्तव्यमन्यथा दानदमदयादीनां वैयर्थ्यप्रसङ्गात् । एवं भगवताऽभिहिते स किं कृतवानित्याह
छिन्नंमि संसयंमी जाइजरामरणविप्पमुफेण । सो समणो पवइओ पंचहि सह खंडियसएहिं ।। ६१६ ॥ व्याख्या पूर्ववत् ॥
॥ पञ्चमो गणधरः समाप्तः ।।
दीप
अनुक्रम
... अत्र मूल संपादने गाथा-क्रम || ६१६ || मुद्रितं तत् मुद्रणदोषः, सा गाथा || ६१७ || एव वर्तते
~78~