________________
आगम
(४०)
[भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३
अध्ययनं -1, नियुक्ति: [५९६], विभा गाथा [-], भाष्यं [११९...], मूलं /-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
IA यत्कारण-पशिमित्तं निष्क्रमणं यत्तदोर्नित्याभिसम्बन्धात् तत् पतेषां गणधराणामानुपूर्ता-परिपाव्या पक्ष्ये, तथा जातीर्थ सुधर्मात्-पश्चमात् गणधरात् जातं, यतो निरपत्याः-शिष्यरहिताः शेषाः-इन्द्रभूत्यादयो गणधराः ॥ तत्र जीवादिसंशयापनोदनिमित्तं गणधरनिष्क्रमणमितिकृत्वा यो यस्य संशयस्तदुपदर्शनार्थमाह
जीवे कम्मे तज्जीव भूअ तारिसय पन्ध मुक्खे य । देवा नेरच्या वा पुन्ने परलोभ निवाणे ॥५९६ ॥ आद्यस्य गणभृतो जीवे संशयः, किमस्ति नास्तीति, द्वितीयस्य कर्मणि, यथा ज्ञानावरणीयादिलक्षणं कर्म किमस्ति किं वा नास्तीति, तृतीयस्य तज्जीवेति किं तदेव शरीरं स एव जीवः किं वाऽन्य इति, न पुनर्जीवसत्तायां तस्य । संशयः, चतुर्थस्य भूतेषु संशयः, किं पृथिव्यादीनि भूतानि सन्ति किं वा नेति !, पञ्चमस्य 'तारिसय'ति किं यो यादृश इह भवे सोऽन्यस्मिन्नपि भवे तादृश एवं उतान्यथापीति संशयः, षष्ठस्य बन्धश्च मोक्षश्च बन्धमोक्षं तस्मिन् संशयोयथा बन्धमोक्षी स्तः किं वा नेति, आह-कर्मसंशयादस्य को विशेषः, उच्यते, स कर्मसत्तागोचरः, अयं तु तदस्तित्वे सत्यपि जीवकर्मसंयोगविभागगोचर इति, सप्तमस्य किं देवाः सन्ति किं वा न सन्तीतिसंशयः, अष्टमस्य नारकाः संशयगोचरः, किं ते सन्ति किं वा न सन्तीति, नवनस्य पुण्ये संशयः, कर्मणि सत्यपि किं पुण्यमेव प्रकर्षप्राप्ठं प्रकृष्टसुखहेतुः तदेव चापचीयमानमत्यन्तस्वल्पावस्थं दुःखस्य, उत तदतिरिकं पापमस्ति, आहोस्विदेकमेवोभयरूपमुत स्वतन्त्रमुभयमिति, दशमस्य परलोके संशयः, सत्याप्यात्मनि परलोको-भवान्तरलक्षणः किमस्ति किं वा नास्तीति, एकादशस्य निर्वाणे संशयः, निर्वाणं किमस्ति किं वा नेति, आह-बन्धमोक्षसंशयादस्य को विदोपः, उच्यते-स गुभयगो
AMAKAR
दीप
अनुक्रम
JanEtacncionematiana
~46~