SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं [१], नियुक्ति: [८१८], विभा गाथा [-], भाष्यं [१५०...], मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०], मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक H न्धः, चतुर्णामपि सामायिकानां प्रतिपद्यमानका सम्भवति, प्रतिपक्षश्च नियमादस्ति, ज्ञानावरणदर्शनावरणान्तरायमोहनीयजघन्यस्थितिकस्तु देशविरतिरहितस्य सामायिकत्रयस्य पूर्वप्रतिपन्नो लभ्यते, न तु प्रतिपद्यमानको, देशविरतिसामायिकस्य | PI तूभयविकलः, घातिकर्मचतुष्टयजघन्यस्थितौ वर्तमानः क्षपका सूक्ष्मसम्परायादिर्भवति, न शेषः, ततः स यथोकस्वरूप एव, वेदनीयायुर्नामगोत्रजघन्यस्थितिकः पुनः सम्यक्त्वसामायिकसर्वविरतिसामायिकयोः पूर्वप्रतिपन्नोऽस्ति, नतु प्रतिपद्यमानकः, श्रुतसामायिकदेशविरतिसामायिकयोस्तु न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानका, वेदनीयादिजघन्यस्थितिको हि चरमसमये वर्तमानोऽयोगिकेवली, ततः स उक्तस्वरूप एव भवतीति, संसारापेक्षया स्वायुःकर्मजघन्यस्थितिचिन्तायां | क्षुल्लकभवोऽयाप्यते, तन्त्र च वर्तमानो जीवो निगोदादिश्चतुर्णामपि सामायिकानां न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, तस्य तथारूपपरिणामासम्भवात् । सम्पति वेदद्वारं संज्ञाद्वारं कषायद्वारं च व्याचिरूयासुराह चउरोऽवि तिविहवेए उसुवि सन्नासु होइ पडिवत्ती। हिट्ठा जहा कसाए पनि तय इहयंपि ॥८१८॥ चत्वार्यपि सामायिकानि त्रिविधवेदे-स्त्रीपुंनपुंसकलक्षणे पूर्वप्रतिपन्नानि नियमतः संप्रति प्रतिपद्यमानानि च सम्भवन्तीति | वाक्यशेषः, किमुक्तं भवति :-त्रिविधेऽपि वेदे चतुर्णामपि सामायिकानां विवक्षितकाले पूर्वप्रतिपन्ना नियमेन विद्यन्ते, प्रति-151 पद्यमानकास्तु भाज्या इति, अवेदकः सम्यक्त्वसर्वविरतिसामायिकयोः पूर्वप्रतिपन्नो नियमेन लभ्यते, सयोगिकेवलिनां सदैव भावात् , श्रुतसामायिकस्य तु कदाचिलभ्यते कदाचिन्न, क्षीणवेदक्षपकसम्भवेऽवाप्यते, न शेषकालमिति भावः, प्रतिपद्यमानकस्तु त्रयाणामपि न सम्भवति, देशविरतिसामायिकस्य तूभय विकलः। द्वारं । तथा चतसृष्वपि संज्ञासु-आहा ERICSSESCHICA584********* दीप अनुक्रम ~310~
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy