SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं -1, नियुक्ति: [५५९], विभा गाथा [-], भाष्यं [११४...], मूलं |-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक धरा अपि, नवरं ते तीर्थस्य मार्गतः पार्थेषु च निषीदन्ति, तदनन्तरं अतिशेषसंयता-अतिशाविनः केवत्यादयः संयता एवं निषीदन्ति, किमुक्तं भवति?-ये केवलिनस्ते पूर्वद्वारेण प्रविश्य भगवन्तं त्रिकृत्वः प्रदक्षिणीकृत्य नमस्तीर्थायेति भणित्वा तीर्थस्य-प्रथमगणधरस्य शेषगणधराणां च पृष्ठतो निषीदन्ति, येऽप्यवशेषा अतिशायिनो मनःपर्यवज्ञानिनोऽवधिज्ञानिनश्चतुर्दशपूर्वधराः त्रयोदशपूर्वधरा यावदशपूर्वधरा नवपूर्वधराः खेलौषधय आमौषधयो जल्लोषध्यादयश्च तेऽपि पूर्वद्वारेण प्रविश्य विकृत्वो भगवन्तं प्रदक्षिणीकृत्य वन्दित्वा नमस्तीर्थाय प्रथमगणधररूपाय नमः केवलिभ्य इत्युक्त्वा केवलिनां पृष्ठतो यथाक्रम निषीदन्ति, ये चावशेषा अनतिशायिनः संयताःतेऽपि पूर्वद्वारेणैव प्रविश्य त्रिकृत्यो भगवन्तं प्रदक्षिणीकृत्य वन्दित्वा नमस्तीर्थाय नमः केवलिभ्यः नमोऽतिशायिभ्य इत्युक्त्वा अतिशायिनां पृष्ठतो निपीदन्ति, वैमानिकानां देव्यः पूर्वद्वारेणैव प्रविश्य भगवन्तं त्रिकृत्वः प्रदक्षिणीकृत्य वन्दित्वा नमस्तीर्थाय नमः केवलिम्यः नमोऽतिशायिभ्यः नमः साधुभ्य इति भणित्वा निरतिशयिसंयतानां पृष्ठतस्तिष्ठन्ति, नतु निषीदन्ति, श्रमण्यः पूर्वद्वारेण प्रविश्य तीर्घकरं त्रिकृत्वः प्रदक्षिणीकृत्य वन्दित्वा नमस्तीर्थाय नमः केवलिभ्यो नमोऽतिशायिभ्यो नमः शेषसाधुभ्य | इत्युक्त्वा वैमानिकदेवीनां पृष्ठतस्तिष्ठन्ति, न तु निषीदन्ति, भवनपवासिन्यो व्यन्तों ज्योतिष्क्यश्च दक्षिणद्वारेण प्रविश्य त्रिकृत्वस्तीर्थकरं प्रदक्षिणीकृत्य वन्दित्वा दक्षिणपश्चिमायां दिशि, नैतकोणे इत्यर्थः, तिष्ठन्ति, न तु निषीदन्ति, भवनवासिनीनां पृष्ठतो ज्योतिष्कदेव्यस्तासां पृष्ठतो व्यन्तर्यः। एतदेव सविशेष प्रतिपिपादयिषुरिदमाह। केवलिणो तिउण जिणं तित्थपणामं च मग्गओ तस्स । मणमाईवि नमंता वयंति सहाण सहाणं ॥५५९ ॥ ECACANACAKACE+ दीप अनुक्रम JanEtacncionematiana ~30
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy