SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H [भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ३ अध्ययनं [-], निर्युक्तिः [ ७८२-७८३ ], वि० भा० गाथा [ २४६४ - २४६५], भाष्यं [ १३७ - १३८ ], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः सम्बद्धाः सन्ति ततस्ते तैजसकार्म्मणशरीरानुगता वर्त्तन्ते इति किमिति चक्षुषां न गृह्यन्ते १, उच्यते, स्वतो जीवप्रदेशानाममूर्त्तत्वात् कार्मणत्तैजसपुद्गलानां चातिसूक्ष्मत्वात्, उक्तं च- “गिहकोइलाइपुच्छे छिन्नेऽवि तदंतरालसंबंधो । सुत्तेऽभिहितो सुहुमा मुतत्तणतो तदग्गहणं ॥ १॥ (वि. २४६४) ननु मा भूच्चक्षुषा ग्रहणं, केवलं यथा देहे पुच्छादौ च स्फुरणादिभिर्लिंङ्रेजीप्रदेशानामुपलम्भनं तथाऽन्तरालेऽपि कस्मान्न भवति ?, उच्यते, देहे देहैकदेशे वा स्थितानां तेषां तथोपलभ्यमानस्वभायत्वात् वस्तुस्वभाव एप न पर्यनुयोगमर्हति तथाहि प्रदीपरश्मयो मूर्त्ता अपि स्थूला अपि च भूकटकुड्यवरण्डकान्धकारादिस्थूलमूर्त्तवस्तुगता एवं ग्रहणमायान्ति, न केवलेष्वाकाशप्रदेशेषु, तथा स्वभावत्वाद्, एवमत्रापि भावनीयम् उक्तं च- "गेज्झा मुत्तगयातो नागासे जह पदीवरस्सीतो । तह जीवलक्खणाईं देहे न तदंतरालंमि ॥ १ ॥” (वि. २४६५) केवलमतिशयिना दृष्टत्वात् ते सन्तीति प्रतिपत्तव्याः, ततोऽपान्तरालेऽपि प्रदेशानां सद्भावतः सम्बद्धत्वात् पुच्छादिकं गृहकोकिलादिजीवेभ्यो न भिन्नमिति जीव एव, न तु नोजीव इति, यदप्युक्तं 'तत्र समभिरूढो नयो जीवप्रदेशं नोजीवशब्दवाच्यमिच्छन् आगमेऽप्यभिहित' इत्यादि, तन्न सम्यकू, यतः समभिरूढोऽपि नयो नोजीवमिति बुवाणो न जीवादन्यं प्रदेशमभिमन्यते 'जीवे य से पएसे' इति कर्म्मधारयसमासाङ्गीकरणात् उक्तं च- "नोजीवंति न जीवादन्नं देखमिह समभिरूदोत्ति । इच्छ बेइ समासं जेण समाणाहिगरणं सो ॥१॥” (वि. २४७६) ततः पृथग्भूतस्य देशस्य तेनाप्यपरिकल्पनान्न तृतीयराशिसम्भवः, अथवा भवतु तस्य भिन्नदेशपरिकल्पना तथापि न तन्मतं प्रमाणम्, एकनयात्मकतया मिथ्यारूपत्वात्, प्रमाणं तु सर्वनयमतावरोधि सम्यग्रूपत्वात् प्रमाणभूतं चेह वस्तु विचार्यते, ततो द्वावेव राशी प्रतिपद्यतामिति, उक्तं च- "इच्छउ व For Pevato & Personal Use Only ~ 248~
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy